________________
अथ पण्डितमुनिविमलगणिकृतप्रश्नास्तदुत्तराणि चयथा--प्रतिवासुदेवस्य कियन्ति कानि च रत्नानि स्युरिति प्रश्नोऽत्रोत्तरं-प्रतिवासुदेवस्य रत्नसङ्ख्याया रत्नानां च नियमः शास्त्रे दृष्टो | नास्ति, तेन चक्रादीनि तानि यथासम्भवं भविष्यन्तीति सम्भाव्यत इति ॥ ३२६ ॥
तथा—किल्विषसुराणां प्रथमद्वितीयकल्पाधस्तृतीयकल्पाधः षष्ठकल्पाधश्च स्थितिरुक्ताऽस्ति, तत्राधःशब्देन किमभिधीयते, अधस्तनप्रस्तट तस्मादप्यधोदेशो वा !, अन्यच्च द्वात्रिंशदादिलक्षविमानानां मध्ये साधारणदेवीनामिवैतेषां कतिचिद्विमानानि सन्ति विमानैकदेशे विमानाहिर्वा तिष्ठन्ति, चाण्डालस्थानीयत्वात्तेषां मध्ये वासोऽनुचितः, विमानानामपान्तराले भुवोऽभावाबहिरपि तद्वासः कथं घटत इति किश्विषाणां वासस्थानं ग्रन्थाक्षरपूर्वक प्रसाद्यमिति प्रश्नोत्रोत्तरं-किल्विषमुराणां वासः कल्पद्विकादीनामधो भणित इत्यत्राधःशब्दस्तत्स्थानवाचको ज्ञेयः, न चात्राधःशब्दः प्रथमप्रस्तटाथा घटते, तृतीयषष्ठकल्पसत्ककिल्बिषिकामराणां तत्प्रथमप्रस्तटयोस्त्रिसागरोपमत्रयोदशसागरोपमस्थित्योरसम्भवात् , तथा तद्विमानानां सङ्ख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षादिविमानसल्याया मध्ये तद्विमानानां गणनं न सम्भाव्यते, तेषां कल्पद्विकादीनामधो वासाभिधानात् , तत्त्वं तु सर्वविद्वेद्यमिति ॥ ३२७ ॥
तथा--'जमि उ पीलिज्जते ' इति गाथायथाश्रुतार्थेन बब्बूलादीनां द्विदलत्वं नोत्थाप्यते, प्रत्युत व्यवस्थाप्यते, निःस्नेहत्वात् , तेनैतद् ।। द्विदलताव्यपोहायतद्गाथाभावार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-यस्मिन्पीड्यमाने सति स्नेहो न भवति, दालिकरणे द्विदलतासम्भवे सतीति शेषस्तद्वान्यादिकं पूर्वाचार्या द्विदलं ब्रुवन्ति, द्विदले उत्पन्नमपि स्नेहयुतं द्विदलं न भवतीति प्रस्तुतगाथाभावार्थो व्यक्त एवास्ति, तेन बब्बूलादीनां मिञ्जासु स्नेहसद्भावात्तेषां द्विदलताऽभावो बोध्य इति ॥ ३२८ ॥
Jain Education International
For Private & Personal Use Only
jainelibrary.org