________________
सेनप्रश्ने
३ उल्लासः ॥ ८२ ॥
तथा - प्रज्ञापनातृतीयपदवृत्तौ क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलास्त्रैलोक्यस्पर्शिनः सर्व्वस्तोका इत्युक्तं, तत्र के ते ? कथं वा त्रैलोक्यव्यापिनो भवन्तीति प्रश्नोऽत्रोत्तरं - महास्कंधा द्वेधा सचित्ताचित्तभेदात् तत्र केवलिसमुद्वाते सकललोकव्यापी अनन्तानन्तकर्मपुद्गलमयो महास्कन्धः सचेतनजीवाधिष्ठितत्वात् सचित्तमहास्कन्ध उच्यते, तदितरत्पुद्गलमयस्तु विस्रतापरिणामजनितः सकललोक व्याप्यचित्तमहास्कन्धः, एवमनेकेsपि केवलिदृष्टाः सकललोकव्यापिनो महास्कन्धा ज्ञेयाः, यद्येतद्विषया भूयस्यपेक्षा तदा विशेषावश्यकवृत्तौ पीठिकायां द्रव्यवर्गणाधिकारो विलोकनीय इति ।। ३२२ ॥
अथ पण्डितशुभकुशल गणिकृतप्रश्नस्तदुत्तरं च-
यथा— सम्प्रति तपागच्छीयश्राद्धा यथेर्यापथिकीप्रतिक्रमणपूर्वकं सामायिकमुखपोतिकां प्रतिलेखयन्ति तथा क्व शास्त्रे प्रतिपादितमस्तीति प्रश्नोऽत्रोत्तरं – महानिशीथे हारिभद्र्यां दशवैकालिकवृत्तौ च स्पष्टतया सर्व्वमपि चैत्यवन्दनाद्यनुष्ठानमै र्यापथिकीप्रतिक्रमणपूर्वकमेव मस्ति, तन्मध्ये सामायिकमुखपोतिकाप्रतिलेखनमध्यायातमेव, तेन तदपीर्यापथिकाप्रतिक्रमणपुरस्सरमेव विधेयमिति तत्त्वम् ॥ ३२३ ॥ अथ पण्डितप्रेमविजयगणिकृतप्रश्नौ तदुत्तरे च-
यथा— जना गृहस्थावस्थायां केवलिनं साधुं वा प्रणमन्ति नवा इति प्रश्नोऽत्रोत्तरं - निषेधो ज्ञातो नास्ति ॥ ३२४ ॥ तथा--षट्पञ्चाशद्दिकन्यकानां कुमारीति संज्ञा कथमिति प्रश्नोत्तरं - अत्र भवनपतयः सर्वेऽपि प्रायः क्रीडाप्रिया भवन्तीति कुमारा उच्यन्ते, तथा एता दिक्कुमार्योऽपि भवनपतित्वेन तद्वद्बोध्या इति ॥ ३२५ ॥
Jain Education rational
For Private & Personal Use Only
शुभकुश० ३२३ प्रेमविज० | ३२४-३२५
॥ ८२ ॥
w.jainelibrary.org