________________
तेषां कथं सम्भवतीति प्रश्नोऽत्रोत्तरं-सर्वेषामभव्यानां मुक्तिश्रद्धानं न भवत्येव, देवलोकादिश्रद्धानं तु केषाश्चिद्भवत्यपि, विशेषावश्यकवृत्त्यादौ तथोक्तेः । तथा अभव्यानां अध्यवसायवैचित्र्यं स्यादेव, यतो नवमवेयकादिकं सप्तमनरकादिकं च यावद्च्छतां शक्लकृष्णादिलेश्यावतामुमयेषामपि अध्यवसायसाम्यं न घटते, कार्यभेददर्शने कारणभेदाभ्युपगमस्य न्यायसिद्धत्वात् , सर्वेऽप्यभव्या अङ्गारमईकाचार्यसदृशा एव भवन्तीत्यपि शास्त्रे दृष्टं नास्ति । तथा अभव्यानां पूर्वगतलब्धिमाश्रित्य पूर्वाणि धारयन्तीति दश चतुर्दशपूर्वविद इत्यावश्यकबृहद्वृत्तिवचनात् अभिन्नदशपूर्वधरादयः पूर्वगतलब्धिमन्तोऽवसीयन्ते, नत्वन्ये, अत एवाभव्यानां भिन्नदशपूर्वीश्रुतलाभेऽपि शास्त्रान्तरोक्तपूर्वगतलब्धिनिषेधो युक्तिमानेव । तथा तेषामागमव्यवहारित्वेऽपि न काऽपि क्षितिः, भव्या एवागमव्यवहारिण इत्यक्षराणां शास्त्रेष्वदर्शनात् ॥ ३२ ॥
तथा-यो मोक्षार्थ क्रियां करोति स क्रियावादीति प्रघोषः सत्योऽसत्यो वा ?, यदि सत्यस्तर्हि मोक्षार्थ जीवघातं कुर्वत्सु सत्स्वपि तुरुष्कादिफिरङ्गिकपर्यन्तसवमिथ्यादृष्टिषु क्रियावादित्वं स्यात्, तत्तु केषाश्चिदात्मश्राद्धानामत्रत्यदुण्डिकखाद्यानां च चेतसि न प्रतिभासते, प्रत्युत ढुण्डिका इत्थं कथयन्ति-श्रीमतां ये ये गीतार्था अत्र समायान्ति ते सर्वेषां क्रियां कुर्खतां मिथ्यादृशां क्रियावादित्वं कथयन्ति, तदसमीचीनं श्रद्धानं, ते तु ढुण्डिकाः सम्यग्दृशां सम्यक्त्वाभिमुखानां च क्रियावादित्वं कथयन्ति, नान्येषामिति प्रश्नोत्रोत्तर-यो मोक्षार्थ क्रियां करोति स क्रियावादीति | प्रघोषः सत्य एव लक्ष्यते, न च कोऽपि मोक्षार्थ जीवघातादिकं करोति, यतः तुरुष्काणामपि मूलशास्त्रेषु जीववधस्य निषिद्धत्वात्, याज्ञिकानामपि स्वर्गाद्यर्थमेव यज्ञस्य प्ररूपणात् , तथा सम्यग्दृश एव सम्यक्त्वाभिमुखा एव वा क्रियावादिन इत्यक्षराणि शास्त्रे न सन्ति प्रत्युत भगवतीवृत्तावित्युक्तमस्ति-एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् । भगवतीसूत्रं च विशेषपरं, तेन तत्र क्रियावादिपदेन सम्यग्दृष्टयो गृहीतः, अन्यत्र तु मिथ्यादृष्टयोऽपि, तत उभयेऽपि क्रियावादिन इति तत्त्वम् ॥३२१॥
Jain Educat
i
onal
For Private & Personel Use Only
M
w.jainelibrary.org