SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३ उल्लासः ॥ ८४ ॥ तथा—पौषधिकस्य भोजनाक्षराणि क्व सन्तीति प्रश्नोऽत्रोत्तरं - पौषधिकस्य भोजनाक्षराणि पञ्चाशकचूणौं श्राद्धमतिक्रमण सूत्र चूर्यादी व्यक्तानि सन्तीति ॥ ३३८ ॥ तथा -- चाउदसमुद्दिट्ठपुणिमासिणीसुणं पडिपुण्णं पोसहं ' इत्यत्र श्रीसूत्रकृताङ्गवृत्तौ उद्दिष्टशब्देन कल्याणकतिथय उक्ताः, पौर्णमासीशब्देन तु तिस्रश्चतुर्मासकपूर्णिमा उक्ताः, राजमनीयवृत्तौ तु उद्दिष्टशब्देनामावास्या पौर्णमासीशब्देन सामान्येन पूणिमा उक्तास्तदयं कथमर्थभेद इति प्रश्नोऽत्रोत्तरं - सूत्रकृताङ्गवृत्तिराजमनीय वृत्तिव्याख्यानं चरितानुवादपरं न च तत्साधकं बाधकं वा भवति, भगवतीवृत्तियोगशावृत्त्यादौ तु चतुपर्ण्यधिकारे सामान्यतः पूणिमाऽमावास्ये उक्ते स्त इत्यत्र श्रावकानां तत्र ते ज्ञेये इति ॥ ३३९ ॥ तथा - सिद्धांते 'पडिपुण्णं पोसहं पालेमाणे ' इति पाठः टीकायां प्रतिपूर्णमहोरात्रमिति व्याख्यातं ततः केवलादेवसपौषधाक्षराणि क्व सन्तीति प्रश्नोऽत्रोत्तरं - उत्तराध्ययन सूत्रपञ्चमाध्ययने ' अगारिसामाइअंगाई' एतद्गाथावृत्त्यनुसारेण प्रतिपूर्णपौषधकरणं प्रायिकं ज्ञेयमिति ॥ ३४० ॥ तथा — पौषधिकः पट्टपट्टिकालिखितप्रतिमां वासेन पूजयति नवा इति प्रश्नोऽत्रोत्तरं - पौषधिकः कारणं विना पट्टादिकं न पूजयतीति ज्ञेयमिति ॥ ३४९ ॥ तथा - कर्म्मग्रन्थवृत्तौ ' जातिस्मरणमपि अतीतसङ्ख्यात भवाऽवगमस्वरूपं मतिज्ञानमेवे ' त्युक्तमस्ति " पुव्वभवा सो पिच्छ, इक दो तिन्नि जाव नवगं वा । उवरिं तस्स अविसओ, सहावओ जाइसरणस्म " ॥ १ ॥ इति गाथायां तु नवैव भवा जातिस्मरणस्य विषयस्तत्कथमिति प्रश्नो Jain Education International For Private & Personal Use Only देवविज० ३३६-३५६ ॥ ८४ ॥ www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy