________________
ऽत्रोत्तरं-जातिस्मरणवान आचाराङ्गवृत्त्याद्यभिप्रायेणातीतान् सङ्ख्यातान् भवान् पश्यतीति ज्ञायते, कर्मग्रन्धवृत्तावपि स एवाभिप्रायोऽस्ति | | " पुन्वभवा सो पिच्छइ ' इयं गाथा तु छुटितपत्रस्था न तु तथाविधग्रन्थस्था, तेन निर्णायिका न भवतीति ॥ ३४१॥
तथा-"छम्मासाऊसेसे, उपन्नं जेसि केवलं नाणं । ते नियमसमुग्घाया, सेस समुग्याय भयणिज्जा" ॥ १॥ इति दीपालिकायां " यः षण्मासाऽधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा ॥१॥" गुणस्थानप्रकरणे “ यस्य पुनः केवलिनः, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्वातं भगवानुपगच्छति तत्समीकर्तुम् " ॥ १ ॥ इति प्रशमरताविति त्रयाणां मध्ये कः केवली नियमतः समुद्घातं करोति कश्च न करोतीति प्रश्नोऽत्रोत्तरं-प्रज्ञापनासूत्रवृत्तिप्रवचनसारोद्धारवृत्तिप्रशमरत्यादौ सामान्यतः समुद्घातस्वरूपं प्रोक्तमस्ति, न तु कश्चिद्विशेषो, गुणस्थानकक्रमारोहसूत्रे तु यः षण्मासाधिकायुष्क इत्यादि विशेषोऽपि दृश्यते, अत्र मतभेदस्सम्भाव्यते, तत्त्वं तु | केवलिनो विदन्ति, दीपालिकामतं तु गुणस्थानकमारोहवृत्तिकारेण तद्गाथायाः स्वोक्तसमर्थनाय सामान्येन दर्शितत्वात्तदनुयाय्येव, परस्पर | तदुपपत्तिश्च 'छम्मासाउसेसे' इत्यत्र प्राकृतशैल्या षण्मासायुःशब्दात् सप्तम्येकवचनलोपे शिष्यते-विशिष्यतेऽधिक्रियते इति शेष इति शेषशब्दस्या| धिकवाचकत्वे च किश्चिदाधक षण्मासायुषीत्यर्थकरणेन ज्ञेया, षण्मासशब्दादधिकशब्दस्य लोपेन वा इति ॥ ३४२॥
तथा-नारक जीवेभ्यो निगोदजीवानां दुःखमधिकं निगोदनीवेभ्यो वा नारकीवानामिति प्रश्नोऽत्रोत्तरं-निश्चयतो नारकजीवेभ्यो निगोद| जीवानां जन्ममरणाघेकशरीरानन्तजीवावस्थानादिरूपं महद् दुःखं, परं तन्मत्तमूछितादीनामिव नातिदुस्सहं, व्यवहारतस्तु निगोदनीवेभ्यो नारक| जीवानां परमाधार्मिक तवेदनादिरूपं महदुःखमिति वृद्धवाद इति ॥ ३४३ ॥
Jain Education
l
a IIII
For Private & Personal Use Only
Lainelibrary.org