________________
Doo0000666Dododcoldoc@@
- ओहारिणि अप्पियकारिणि च भासं न भासेज्ज सया स पुज्जो ॥ (९.३.९) (अवधारिणीमप्रियकारिणीं च भाषां न भाषेत सदा स पूज्यः ।)
(अवधारिणी = कदाग्रहयुता) सत्ये 'इदमित्थ'मिति श्रद्धाऽऽवश्यकी, न तु 'इदमित्थमेवे'ति कदाग्रहः । सत्यमपि श्रुतिसुखदं वक्तव्यं, न तु कठोरम् । स्वर्णखण्डमपि तप्तं भवति चेत् को वा तद् गृह्णीयात् ? - अकोउहल्ले य सया स पुज्जो ॥ (९.३.१०)
(अकुतूहली च सदा स पूज्यः ।) कौतुकमनवधानतासम्पादकम् । अवधानमन्तरेण सामान्यस्याऽपि कार्यस्य सम्पूर्ति१ःशका, का पुनर्वार्ता महत्तासम्पादनस्य ? किञ्च, कतकप्रियो जनोऽगम्भीरो भवति । अगम्भीरस्य पूज्यता नाऽङ्गीक्रियते एव लोके इति तु न पुनर्वक्तव्यं खलु ? - जो रागदोसेहिं समो स पुज्जो ॥ (९.३.११)
(यो रागद्वेषाभ्यां समः स पूज्यः ।) रागकलङ्केन यस्याऽन्तःकरणं न मलिनीभूतं, द्वेषज्वालया च न दग्धं, य: सर्वदा निस्तरङ्गः, सर्वत्र मध्यस्थः, स कथङ्कारं लोके पूज्यो न भवेत् ? - जिइंदिए सच्चरए स पुज्जो ॥ (९.३.१३)
(यो जितेन्द्रियः सत्यरतः स पूज्यः ।) इन्द्रियजये सति तृष्णा निवर्तते । ततश्चोपशान्तिः सम्प्राप्यते । उपशान्त एवाऽन्यान् तृष्णादुःखदग्धान् शान्त्यमृतसिञ्चनेन सान्त्वयितुमर्हति । इत्थमेव यस्य चित्तं नित्यं सत्ये एव रमते स एव लोकं सत्याभिमुखं कर्तुं, उन्मार्गात् सन्मार्ग प्रापयितुम्, असदन्धकारात् सत्तेजः प्रदर्शयितुं च शक्नोति । एवं महोपकारी स पूजनीयो भवेदेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org