Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ दुःशीलजनानां समागमे पतितो जन एषः - जीवनाद् भ्रष्टो भविष्यामि, समाजे निन्दनीयो भविष्यामि, पूज्यजनानामनादरणीयो भविष्यामि, दुर्गतौ च पतिष्यामि, तथैतेषां कुशीलानां समागमेनाऽनेके जना उन्मार्गगामिनो जाता: इति सर्वं जानाति तथाऽपि स तेषां समागमं न त्यजति । अत्र कोऽपि जनः प्रश्नं करोति - किं कुशीलजनानां मध्ये कलुषिते वातावरणे च वसन्तः सर्वेऽपि जना दुःशीला भवन्त्येव ? इति । तदुत्तरमस्ति - नेति । यो जीवः सात्त्विकोऽस्ति, पापभीरुश्चाऽस्ति तादृशो जनो दुष्टजनानां मध्ये वसन्नपि । पङ्कजवद् निर्लेपीभूयाऽऽत्मानमनर्थेभ्यो रक्षितुं समर्थो भवति । अस्मिन् संसारे शुभान्यशुभानि च निमित्तानि पदे पदे प्राप्यन्ते, किन्तु सात्त्विकादिगुणयुतो जीवोऽशुभनिमित्तानि विहाय शुभनिमित्तान्येव गृह्णाति । एतादृशो जीवस्तु कुत्राऽऽत्महितं वर्तते, केन चाऽऽत्मोत्थानं भवतीति विचिन्त्यैव कार्यं करोति । एवं न कुमित्रं परिस्थितिं च वशीभवति किन्तु स्वशक्तेः सदुपयोगद्वारेण तं जनं सन्मार्गे प्रस्थापयितुं तथा मलिनपरिस्थितिमपि परिवर्तयितुं प्रयतते जीव एतादृशः, अन्यथा दूरे एव वसति । एवं सर्वमपि सत्त्वमवलम्बते । भो ! त्वं जानास्येव यद्- अभयकुमारस्य मैत्रीं यः करोति स्म स भव्य एव भवति स्म । क्रूरस्य कालसौकरिकस्य पुत्रः सुलसोऽप्यभयकुमारस्य मैत्रीप्रभावेणाऽशुभवृत्तिं विहाय सदाचारी सञ्जातः, तथैवाऽस्माकमप्याचरणमेतादृशं स्याद् येन यस्माकं समागमे आगच्छेयुस्ते सर्वेऽपि शीलवन्त उत्तमाश्चैव भवेयुः । ) अस्माकं समागमेनाऽन्यैर्हितं प्राप्यते न वा, किन्त्वहितं तु नैव स्यात्तेषामिति चिन्ता, कार्या सदा । Jain Education International 2010_04 अन्ते, बन्धो ! यदि त्वं जीवनमुन्नतं कर्तुमिच्छेस्तर्हि कुशीलानां संसर्गाद् दूरमेव वसे: । यद्यज्ञानवशेन तेषां समागमो भवेत् तर्हि यदाऽपि वास्तविकबोध: > स्यात्तदा तत्क्षणमेव तेषां समागमं त्यजेः । भो ! यथा यदा पादस्यैकस्मिन् भागे, व्रणः स्यात्तदा चिकित्सकैर्व्रणयुतस्तद्भाग उच्छिद्येताऽन्यथा गते काले सम्पूर्णपादविच्छेदः करणीयः स्यात्; तथैव यदि तव मित्रवर्तुले गृहे कार्यालये चैकमपि दुःशीलं जनं जानीया: पश्येश्च तर्हि झटिति तं जनं दूरीकुर्या:, अन्यथा स तु कलङ्कीभवेदेव किन्तु तस्यैकस्य जनस्य पापेन समस्तमपि मित्रवर्तुलं गृहं कार्यालयं च कलङ्कीभवेत्। बहुवर्षैरवाप्ता प्रतिष्ठाऽपि मलिनीभवेत् । अतस्त्वमपि जागृतिपूर्वकं जीवनं जीवेः येन जीवने सदा प्रसन्नता प्रवर्तेत, इत्याशासे । T ५३ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132