Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यशोधरा
डॉ. आचार्य रामकिशोरमिश्रः
यशोधरा ज्ञातवती यत्तस्याः पतिः सिद्धार्थो गौतमबुद्धो भूत्वाऽद्य कपिलवस्तुमागतोऽस्ति । समस्तनगरवासिनस्तस्य स्वागताय गताः परं यशोधरा न गता । तस्याः पतिः कपिलवस्तु राजकुमार: सिद्धार्थस्तां शयितां परित्यज्य तपसे वनं गतः । यदि स तस्याः पार्श्वमायास्यति, तदैव सा तस्य दर्शनं करिष्यति । तस्या अयं विश्वासः सत्यः सिद्धच बभूव स तस्या राजकुमार: सिद्धार्थ आसीत्, न तु बुद्धः ।
यदा बुद्धो ददर्श यत्तस्य स्वागतकर्तृषु दर्शकेषु तस्य पत्नी यशोधरा तद्दर्शनाय प्रासादान्नाऽऽगता, तदा स प्रासादं गत्वा 'भिक्षां देहि' इति शब्दं चकार । तं शब्दं श्रुत्वा सा भिक्षुकाय भिक्षां दातुं द्वारमागता यदा तदा सा स्वसमक्षं द्वारे स्थितं स्वपतिं भिक्षुकमपश्यत् । तस्या नयनाभ्यामश्रुधारा प्रवाहिता । तया करबद्धया तस्मै नमस्कृतम् । तस्मै महामानवाय भिक्षायां किं दीयेतेति विचार्य तया सुवर्णरत्नादिभिक्षादानेन सह तस्मै बुद्धाय बौद्धं विधातुं स्वपुत्रो राहुल: समर्पितः ।
सिद्धार्थः कपिलवस्तुनो राज्ञः शुद्धोदनस्य पुत्र आसीत् । तस्य मनः सांसारिककर्मसु न रमते स्म । अतस्तस्य पित्रा यशोधरया सह विवाहः कृतः, किन्तु यशोधरया सहाऽपि तस्य मनो न प्रसन्नम् । येन केन प्रकारेण सह निवसता तेन यशोधरा गर्भवती बभूव परं सिद्धार्थस्तस्यां नाऽरमत । अत एकस्यां रात्रौ स स्वपत्नीं शयितामेव विहाय पुत्रं च सुप्तं दृष्ट्वा तपसे वनं जगाम तपस्तप्तः स बोधं प्राप्य बुद्धो भूत्वा जगते सत्यमहिंसां दयां च सदुपादिशत् । मृत्युरेव जीवनस्य सत्यमस्तीति बुद्धाज्ज्ञानमवाप्य यशोधराऽपि परित्यक्ताया जीवनं यापितवती । स्वशिशुं प्रति कर्तव्यविमुखं पति सिद्धार्थमक्षमत सा । संसाराय यो ज्ञानं ददाति, तस्य ज्ञानदातृसङ्घ वृद्धिं कर्तुं स्वात्मजं राहुलं बुद्धस्य भिक्षापोट्टलिकायां निक्षिप्य साऽभवदमरा यशोधरा ॥
Jain Education International 2010_04
१०८
२९५ / १४, पट्टीरामपुरम् खेकड़ा - २५०१०१ (बागपत) उत्तरप्रदेश:
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132