Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कवीनां प्रौढानामजनि कमनीयः कवयिता ।।
हिमगिरिनन्दिन्याः पार्श्वे सोऽपश्यत् - जनन्याः सुधानिस्यन्दिनीं स्निग्धदृष्टिम् । सोऽनुभूतवान्-कोमलालिङ्गनस्य स्पर्शम् । स श्रुतवान् - वात्सल्यसम्भाषणम् । तस्याः वक्षोदेशात् झरति रक्तं जलीकृत्य वात्सल्यस्य अमृतमयी धारा . I
Jain Education International 2010_04
पार्वती तथा आर्याम्बा । तयोः पार्थक्यं नाऽस्ति एव । आर्याम्बा एव जगज्जनन्याः प्रतिमूर्तिः । शङ्करोऽद्य प्रतिनिवर्तते । दीर्घकालं यावद् देशान्तरं परिभ्रम्याऽपि ज्ञानिनो मर्यादां सम्प्राप्यऽपि, संन्यासिनो गौरवं लब्ध्वाऽपि, ब्रह्मज्ञानिनो दीप्तशिखां दृष्ट्वाऽपि सोऽनुभवति - "अपरं किमपि अपूर्णं वर्तते'' इति ।
सफलजीवनयात्रायाः पूर्णविरामं दातुं स प्रत्यागच्छति स्वीयं वासभवनम् । ज्ञानस्य शुष्कसैकतवक्षसि स्नेहस्निग्धस्रोतस्विनीं प्रवाहयितुं स प्रत्यागच्छति जनन्याः कोमलक्रोडम् । वर्षं यावद् यदर्थं निर्जनतपस्या, कठोरसाधना च तद् वर्तते स्वीयजननीसमीपे । तस्य ज्ञानोदयो जातः । स्नेहमत्तः स धावति दक्षिणापथम् । दूर्वादलोपरि स्थितः शिशिरस्य भग्नांशस्तस्य मनसि सृजति दुःखिन्या जनन्या नयननीरस्य भ्रमम् । संसारत्यागी शङ्करोऽद्य गच्छति यत्सत्यं, यदमृतमयं तस्य 'सन्धानाय । पुत्र उत्कण्ठितचित्ततया धावति जनन्याः शून्यक्रोडं पूरयितुम् ।
जनन्या निस्तब्धे गृहाङ्गणे सहसा प्रस्फुटितानि स्थलकमलानां शतानि । भवने प्रज्वलितो दीपः । अशोकशाखायां कूजति मुग्धा विहगवधूटी । विस्मिता जननी अपृच्छत्"कः " ? " अहं प्रत्यागतोऽस्मि अम्ब !"
तस्य ध्वनिं श्रुत्वा निमीलितनयने उद्घाटितवती जननी । स ध्वनिस्तु तस्या: चिरपरिचित: । तस्या हृदये विकसितानि पुलकानां लक्षपारिजातकुसुमानि । ज्योतिर्हीनयोः नयनयोः स्फुरिता कोटितपनानां प्रभा । कम्पितशरीरेण पदधूलिं स्वीकृतवान् शङ्करः ।
“कः ...? पुत्रः शङ्करः ! त्वं प्रत्यागतः ? अधुना वा स्मृतिपथमागता ते जननी ?" नयनयोः धारा श्रावणं मोचितवती अभिमानिनी जननी ।
“ओम्, मात: ! अहमागतः । हतभाग्य: पुत्रस्ते बहुषु देशेषु परिभ्रम्याsa गृहं प्रत्यागतः । "
“गृहं त्यक्त्वा, मातरं त्यक्त्वा यस्य सन्धानाय त्वया निर्गतम्, अपि
१०६
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132