Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ नायकः "युद्धे नाऽस्ति महत्त्वं शत्रुसङ्ख्यायाः, नाऽस्ति च मूल्यं शस्त्रागाराणाम् / मित्राणि ! महत्त्वमस्ति पराक्रमस्य / मूल्यमस्ति देशप्रेम्णः / मम विश्वासो यद् मम शूराः सहचरा अवश्यं समर्पयिष्यन्ति विजयपुष्पं मातृभूमिचरणयोः।" / धीरोदात्तो नायकः स्ववागोजसा सैनिकेषु शौर्यमुद्दीपितवान् / न केवलं तावद्, रणे स्वयं शत्रोः सम्मुखीभूय तेषूत्साहं वर्धितवान् / अनेन तस्य सैन्यं दुःशकमपि विजयं प्राप्तवदेव, परं नायकस्य शरीरं क्षतविक्षतं रक्तातं जातम्। सुभटाः कस्यचित् सैनिकस्य कम्बलमानीय नायकं तदुपरि शायितवन्तः / वैद्यैर्यद्यपि सुष्ठु चिकित्सा विहिता, तथापि परिणाम: को भवेत्तत् सुभटाः किल जानन्ति स्म / अतस्ते मरणासन्नं नायकं तस्याऽन्तिमेच्छां पृष्टवन्तः / नायको वस्तुतः किमपि वक्तुमिच्छति स्म। शक्तावसत्यामपि स महता परिश्रमेण मन्दमवदत् "मित्राणि! इदं कम्बलं यस्य सैनिकस्य भवेत्तस्मै रात्रेः पूर्वमवश्यं समर्प्यताम् / यतस्तेन शैत्यं सोढव्यं न भवेदिति।" Jain Education International 2010_04 For Private & Personal Use Only www.jainelibe

Loading...

Page Navigation
1 ... 130 131 132