Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ ग्रन्थ समीक्षा 'आचार्ययुगलस्मृतिग्रन्थ:' I र (समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२) सम्पादको लेखकश्च - प्रो. केशवशर्मा, राष्ट्रपतिसम्मानसमलङ्कृतः । प्रकाशकः - सचिव, श्रीमतीरत्नकुमारीसंस्कृतशोधसंस्थान, भारतीविहार, मशोबरा, शिमला, १७१००७, हिमाचलप्रदेश, भारत ।। प्रथमं संस्करणम् - २००८ । पृ.सं. १०+१००+७२+७६, मूल्यम् - ५००/ AP विबुधवाण्याः संस्कृतभाषायाः प्रचार प्रसारे संरक्षणे च येषां विशिष्टमवदान मस्ति, तेषु विद्वद्वरेण्येष्वग्रेसरति स्म-आचार्यवर्यो दिवाकरदत्तशर्ममहाभागः, 'दिव्यज्योतिः' इति संस्कृत-पत्रिकाया आद्यसम्पादकः । तस्य पत्नी बभूव श्रीमती । रत्नकुमारीशर्मा । तयोः संस्मृतौ ‘आचार्ययुगलस्मृतिग्रन्थः' सम्पादितो लिखितश्च । प्रो. केशवशर्मणा । श्रीभैरोसिंहशेखावत-अटलबिहारीवाजपेयि-वीरभद्रसिंह-सोनियागान्धिSN महाभागानां सन्देशैः साकमत्र श्रीआमोदकुमारझामहोदयस्य लेख: 'यत्र नार्यस्तु sh पूज्यन्ते रमन्ते तत्र देवताः ?', डा. राजेन्द्रमिश्रादीनां कविताश्च राजन्ते । ततो EN हिन्दीभाषया श्रीमतीरत्नकुमारीशर्ममहाभागायाः जीवनपरिचयः, तत्सम्बद्धानि संस्मरणानि च, आचार्यदिवाकरदत्तमहाभागस्य संक्षिप्तं जीवनवृत्तम्, प्रो. केशव- Kosh 27) रामशर्मप्रणीतः प्रशंसाञ्जलिः, तत्सम्बद्धाश्चोद्गारा विदुषां संस्थानाञ्च, चित्रमयानि च कानिचन संस्मरणानि शोभन्ते । ततश्चाऽष्टपर्णात्मकं श्रीकेशवशर्मविरचितम् । 'अपर्णा' काव्यम् अस्ति हिन्दीरूपान्तरोपेतम् । ग्रन्थान्ते विलसति भागद्वये विभक्ता कथा 'भारतीयम्', प्रायशः सत्यघटनाश्रिता, आधुनिककाले 'उपन्यासः' नाम्नाऽभिहिता । इयमपि कथा प्रो. केशवशर्मरचिताऽस्ति । 'अपर्णायाः' प्रथमे पर्णे काव्यकारस्याऽऽत्मपरिचयः, द्वितीये पणे मातुरानन्द- मय्याः प्रसादेन तस्योदरपीडाया उपशमनं, पराम्बायाः अनुकम्पया मारणप्रयोगात् । कथं स भगिनीभ्यां च साकं रक्षितः ? इत्युच्यते । स विश्वसिति 'एवं शिवा पराम्बा सा रक्षणे सक्षणा सदा । __पदे पदे सहैवाऽस्ति विश्वासोऽयं दृढो मम ॥' (अपर्णा २/१०७) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132