Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
प्रतिपन्ननिर्वहणम्
सा. दीप्रयशाश्रीः
राजगृहीनगर्यां चत्वारि मित्राणि बभूवः । ते चत्वारोऽपि परस्परं गाढप्रीतियुता आसन् । एकदा नगर्यामाचार्यश्रीभद्रबाहुस्वामिन आगताः । सर्वे नगरजना देशनां श्रोतुमागताः । देशनां श्रुत्वा चत्वारि मित्राणि चारित्रं ग्रहीतुं सङ्कल्पमकुर्वन् ।
तानि गुरुभगवत आहुः - भवतां गिरं श्रुत्वा संसारो दावानल इव दृश्यते । ततश्चाऽस्मभ्यं दीक्षां दत्त्वाऽस्माकं कल्याणं कुरुत । गुरुभिस्तेषां विज्ञप्तिः स्वीकृता ते च प्रव्राजिताः ।
चारित्रं गृहीत्वा चत्वारोऽपि गुरुसेवां कुर्वन्ति स्म । तथैव श्रुताभ्यासं कृत्वा श्रुतपारगामिणश्चाऽभवन् । ततः सर्वे मुनयो गुर्वाज्ञया एकाकिविहारनाम्नी प्रतिमा स्वीचक्रुः यस्यामाहार-विहारादि तृतीयप्रहर एव करणीयं भवति । चतुर्थप्रहरे च यो यत्र स्यात् तत्रैव स्थित्वा सप्तप्रहरपर्यन्तं कायोत्सर्गध्यानं करणीयं भवति ।
ते साधव आचारमिमं निरतिचारतया पालयन्तो राजगृहीनगर्यां गताः । तदा शीतर्तुः प्रवर्तमान आसीत् । तद्दिने आहारं कृत्वा प्रथममुनिर्वैभारगिरिगुहायाः समीपं, द्वितीयमुनिगराद् बहि: पर्वतसमीपं, तृतीयमुनिनगरोद्यानस्य समीपं, चतुर्थमुनिश्च नगराद् बहिर्यावदागतास्तावत् चतुर्थप्रहरः प्रारब्धः । अतस्ते स्वस्थाने एव कायोत्सर्गध्यानेन तस्थुः ।
रात्र्यां शैत्यमवर्धत । तेन च शरीरावयवान्यकम्पन्त । तथाऽपि चतुर्थ्य एकोऽपि मुनिरन्यत् स्थानं गन्तुं विचारमपि न कृतवान् । ते समभावेन शैत्यं सोढवन्तः ।
अथ च शैत्यं सहमानास्ते चत्वारोऽपि मुनयो मनागपि दुश्चिन्तनमकृत्वैकैकशः प्राणान् तत्यजुः स्वर्गलोकं च प्राप्तवन्तः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132