Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ PO आसन् । अत एव लङ्केश्वरकल्पास्ते कमपि सहायभूतं मारीचमेव प्रतीक्षमाणा आसन् । तावदेव घटितोऽसौ सर्वार्थसिद्धियोगः । - वत्स बलदेव ! महिषी तु दोग्ध्री प्रतीयते । कियता मूल्येन क्रीता ? पयोमुखः कश्चिद् विषकुम्भकल्पो वृद्धोऽपृच्छत् । -- पितामह ! याचितं तु तेन षट्सहस्रमितम् । परन्तु यथाकथ ञ्चित्प्रवीभूय सार्धपञ्चसहस्रेण दत्तवान् । सार्धपञ्चसहस्रेण ? हन्त, कीदृशं युगमायातम् । हस्तिनीमूल्येन । महिषी क्रीयते ! अथ, दुग्धं कियद् ददाति ? दशलीटरमितं प्रातः । तावदेव प्रदोषेऽपीत्यवददसौ । बलदेवो वदति स्म। एते जाल्माः प्रायेणाऽसत्यजालं वयन्ति । प्राप्तावसरो दाम्भिक सम्प्रति मुखदरीमुद्घाटितवान् । परन्तु यद्यष्टलीटरमितमपि ददाति र क्षीरं तदाऽपि साधु मन्ये । - मासं यावदसौ अत्रैव वर्तते । महिषी च मत्पावें । क्षीरपरीक्षणं स्वयमेवं सुकरं भविष्यति । बलदेवोऽभणत् । सम्यगाह भवान् । कश्चित् स्निग्धहृदयोऽवदत् । परन्तु भ्रातः हरियाणामहिषी महार्घा क्रीत्वा भवताऽस्मद्ग्रामस्य नाम ख्यापितम् । सोऽपि ज्ञास्यति यदस्मिन्नग्रहारेऽपि सुभगम्मन्या: PAN केचन वसन्त्येव। - अथ महिषीं प्रसूताऽस्ति, महिषं वा ? कश्चित्पृच्छा दरिद्रस्तावदेवाऽपृच्छत् । महिषीम् । - तदयमपदो महान् लाभः । स्निग्धहृदयो भूयोऽप्यवदत् खलानां हृदयानि दग्धुकामः । बन्धो बलदेव ! कतिपर्यवर्षानन्तरमियं महिषीवत्सतरी एव स्वमातुर्मुल्यं तुभ्यं निर्यातयिष्यति । शनैः शनैः सम्मर्दोऽपगतः । प्रदोषध्वान्तो गाढात्प्रगाढतरः सञ्जातः । बलदेवोऽपि महिष्यावासचिन्तायां मग्नः सक्रियो जातः । (HEAVGAVHAVHAVSAVGAVSAVGAVHAVGAVSAVGAVHAVGAVHAVGAVGAVGAVHAVGAVHEAVSAVG Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132