Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ DAT9AY979 ARTISTRATARIANTARATATATATATATARATARNATAKATARATPATANATAK POSपिण्डकचयं पलाशकुसुमचयेन प्रकटयन्तीव परिलक्ष्यते स्म । कृषिक्षेत्राणि सम्प्रति PAN शस्यशून्यान्यासन् । पिपीलिका आर्द्रतामनुसन्दधाना गभीरतरं रन्ध्र खनितुं यत्नवत्य आसन् । शृगालानां भूविवरेष्वजगराः प्रविष्टाः । निदाघदाहोद्विग्नाः सर्वेऽपि जी विपर्यस्तधियः संलक्ष्यन्ते स्म। नित्यमिवाऽद्याऽपि रघुर्महिषीं स्नपयितुं नदीतटमुपगतः । महिषी तु सरिज्जलं दृष्ट्वैव सझम्पमवातरन्नद्याम् । रघुरपि ग्रामबालकैः सह जलक्रीडां कुर्वन् चिरं यावन्नदीस्नानसुखमवाप । ततश्च बहिरागत्याऽसौ महिष्या लौहप्रग्रहे स्वदक्षिणमणिबन्धं निवेश्य तां पुरस्सारयन् गृहं प्रातिष्ठत । यावदेवाऽसौ नदीतटवति रसालवनमतिक्रम्य कृषिक्षेत्रमागतस्तावदेव केचिदुच्छृङ्खला ग्रामकुक्कुरा: प्रोन्मत्तं कमप्यन्यं विद्रावयन्तोऽवलोकिताः । उद्वृत्तदन्तान् अहमहमिकाग्रस्तान् शुनस्तान् दृष्ट्वा भयभीता महिष्यप्यात्मसङ्कटं सम्भाव्य धावितुं प्रवृत्ता । एवमाचरन्त्यास्तस्य ३ शृङ्खलावृत्ते निविष्टो रघोमणिबन्धो दृढं कीलितो जातः । किञ्चित्कालं यावत्तु रघुर्महिष्या सार्धमधावत् परन्तु वृद्धिमुपगते सति तद्धावनेऽशक्तो रघुर्भूमौ निपपात, शृङ्खलाबद्धकाष्ठखण्ड इव कालरूपिण्या तया महिष्याऽऽकृष्यत । प्रोन्मत्तकुक्कुरोऽपि तां महिषीमेवाऽऽत्मविपत्कारणं मन्यमानस्तदुपस्थं क्षतविक्षतं कृतवान् । यथा यथ ऽऽत्मत्राणमन्विष्यन्ती महिषी विविधासु दिक्षु चङ्क्रमणं कृतवती तथा तथैव । भूगोद्घाततटबन्धादिप्रत्यवायानां नतोन्नतभागेषु भृशमाहतो बालको रघुः क्षतवि PAN जातः । समग्रमेव शरीरं तस्य रक्तरञ्जितं जातम् । अन्ततश्चाऽसौ प्रगाढमूर्छामापन्नः ।। ग्रामप्रवेशानन्तरमेव महिषी स्थिरा जाता । प्रोन्मत्तकुक्कुरस्तु ग्रामकुक्कुरैः पञ्चत्वमुपपादितः । एवं सम्पाद्य तेऽपि शनैर्नदीतटमेव प्रत्युपगता मृतपशुमांस भक्षणार्थम् । विद्रावणमुक्ता महिषी सम्प्रति जिह्वां लोलयन्ती, धावनश्रमं लघूकुर्वती, बालकञ्च लौहदामनिबद्धं कर्षन्ती ग्रामवासिभिर्दृष्टा । केचन युवका बालकं कृष्यमाणं दृष्ट्वैव द्रुतमधावन् । ते रघुमणिबन्धं शृङ्खलावृत्तान्निस्सार्य तमानीतवन्तः । हाहाकारस्समजनि निखिलेऽपि ग्रामे । यावन्ति मुखानि, तावन्ति वचनानि SAN किमभूत् ? कथमभूत् ? केन महिषी विद्राविता? कथं नु रघुमणिबन्धः शृङ्खल यं नु रघुमणिबन्धः शृङ्खलायां कीलितः ? महिषी क्षतविक्षता कथं जाता ? इत्यनेके प्रश्नाः सम्प्रति समुत्पन्नाः । श्रुत्वेदं वृत्तं बलदेवोऽपि सपत्नीको वात्यावेगादागतः । सूनुं क्षतविक्षताङ्गमचेतनञ्च दृष्ट्वाऽसौ कातरीभूय क्रन्दितुमारब्धवान् । समाश्वास्य तं सर्वेऽपि बालकमौषधालये नीतवन्तो यत्र तदुपचारो जातः । प्रायेण मासं यावद्रघुः शय्यामेव GAVGAVGAVGAVGAVGAVGAVGEVGAV 9/Y9/AX9I/ATS/ALTS Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132