Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ आर्याम्बा डा. नारायणदाशः MARNE “स प्रत्यागमिष्यति । जनन्याः शून्यं क्रोडं पूरयितुं स नूनं प्रत्यागमिष्यति । कालडीग्रामोपकण्ठे प्रवहन्त्याः पूर्णातटिन्याः तटे विहगवधूटीं स्तब्धीकृत्य प्रत्यागमिष्यति प्राणप्रियः पुत्रः । अद्वितीयः पुत्रोऽन्धस्य लगुड इव विश्वक्सेन इव वा।" रोगशय्यायां शयाना जननी आर्याम्बा चिन्तयति इत्थम् । पुत्रस्य आशु प्रत्यागमनं विचिन्त्य तस्या जराजीणे रोगाकीणे मुखे उद्भासिता प्रसन्नता । स्मरणपथे आयाति वैशाखमासस्यैका राका रजनी । कपिलवस्तुराजप्रासादे हा सर्वे सुखेन प्रसुप्ताः । सुकुमारी गोपा पुष्पितकबरीभारं सुकोमलोपाधाने संस्थाप्य । निद्रिता । तस्या गभीररजन्या निस्तब्धप्रहरे शयनकक्षं परित्यज्य संन्यासिनो गैरिकवसनं परिधाय नगरस्य प्रसुप्ते राजपथे प्रस्थितो राजकुमारो गौतमः । पृष्ठभागे संस्थापिता महती अशान्तिः, साहारायाः हाहाकारः, तृप्तिहीना तृष्णा । यदा आर्याम्बा तस्या गोपाया विषयं चिन्तयति, तदा तदीयाः प्राणा: क्रन्दन्ति । शिथिले रक्तहीने गण्डयुगलेऽझरदश्रुधारा । शङ्करो विवाहं करिष्यति, सुवर्णप्रतिमा वधूर्गृहमागमिष्यति, तस्याः शुभनूपुरशिञ्जिनिः आर्याम्बाया रिक्तमनोगहरे मुखरिता भविष्यति । ततो नववसन्तस्य नवकिसलया इव नवातिथयः शिशव आगमिष्यन्ति । आर्याम्बाया जीवने वसन्तस्य समारोहो भविष्यति । किन्तु क्व गता सा कल्पना? स्वप्नाः स्वप्नेषु एव विध्वस्ताः । जीवनस्य मधुमये लग्ने पुत्रो गृहत्यागी संन्यासी जातः । जनन्याः सकला आशाः समस्ताः कामनाश्च वृथा अभवन् । गमनसमये स प्रत्यशृणोत् - "अहं गच्छामि मातः । परन्तु नूनं प्रत्यागमिष्यामि ।" "कदा पुत्र !? त्वां विना किमहं जीवितुं शक्नोमि ?" - साश्रुनयना । जनन्याकुलचित्ततया पृष्टवती । “जीवनस्य परमं सत्यं मयाऽनुसन्धेयं वर्तते । Kala तत्प्राप्याऽवश्यं प्रत्यागमिष्यामि । "अयं ग्रामः, इदं गृहम्, अयं जनन्या उत्सङ्गः, इदं जीवनमित्यादिकं TOPAGA ATomale १०३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132