Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ Jain Education International 2010_04 जानासि हरियाणामहिषीणां मूल्यम् ? न ते ग्रामग्रामटिकानां विक्रेतारः । सर्वथाऽर्थपिशाचास्ते । अभीष्टं मूल्यं प्राप्यैव पशुं ददति । न माध्यस्थ्यं मन्यन्ते, न चाऽपि दाक्षिण्यं दर्शयन्ति । बलदेवोऽवदत् । तत्सर्वमाकर्ण्य भार्याऽऽतङ्कितेव सञ्जाता । परन्तु यत्नसंरक्षितं महिष्याकाङ्क्षाग्निकणं वार्तावातै: प्रोद्दीपयन्ती पुनरवादीत् - भोः कथं युद्धात्पूर्वमेव पराजितोऽसि जात: ? गच्छ तावत् । महिषीः पश्य । काऽपि तावदल्पमूल्येनाऽपि क्रेतुमर्हा स्यात् । बाढम् । इदमुचितं वदसि । गच्छामि । रघुमपि सहैव नयामि । परन्तु मत्पार्श्वे चतुस्सहस्रमात्रं वर्तते । यद्येतावता काऽपि मनोऽनुकूला महिष्यानेतुं शक्ष्यते तर्हि ध्रुवमानेष्यामि । भार्या प्रसन्ना जाता । बलदेवो ज्येष्ठपुत्रेण सह विपणि गतः । गृहिणी चाऽपि विविधान् मनोरथान् कुर्वती प्रतीक्षारताऽतिष्ठत् । होरानन्तरमेव पुत्रो धावन् समागतः । सोऽवदत् - अम्ब ! महिषी दृष्टा तातेन । परन्तु विक्रेता सार्धपञ्चसहस्रात् कथमप्यधो नाऽवतरति । षट्सहस्रमयाचताऽसौ । तातः कथयति यन्मातुलगृहात् 'सार्धसहस्रमादाय त्वरितं प्रेषयेति । दारकवचनं श्रुत्वा गृहिणी वासकक्षाभ्यन्तरं गता । पिटकात् सार्धसहस्ररूप्यकाण्यानीय त्वरितं दत्तवती, सप्रणयमवदच्च-वत्स ! सति स्वतातं ब्रूहि यन्मातुलगृहादानीय रूप्यकाणि दत्तवती जननीति । बाढमित्युक्त्वा रघुर्जङ्घाबलेन भूयोऽपि विपणिमधावत् । सन्ध्यातः पूर्वमेव महिषी बलदेवद्वारमागता । सर्वेऽपि प्रतिवेशिनो ग्रामवृद्धा अकारणसपत्नाश्च महिषीं द्रष्टुं पुञ्जीभूताः । निश्चप्रचं हरियाणाभिजना महिषीयं' शरीरसौष्ठवमहिम्ना दर्शनीयाकृतिरासीत् । वर्तुल: प्रोथ:, साकूतदर्शनं नयनयुगलं, मांसलं नितम्बद्वयं, पीवरमोधः । पशुयोनौ समुत्पन्नाऽपि महिष्यसौ वल्गुविब्बोककुट्टमितमोट्टायितादिनायिकालङ्कारं प्रकटयन्ती पश्यतां मनांसि प्रसह्य हृतवती । परन्त्वीर्ष्याकषायितचेतसां खलानां किमेतावता प्रयोजनम् ? जिह्वाकण्डूतिविकलास्ते आसन् । प्रश्नयक्षस्तेषां हृदि निषण्णो बहिरागन्तुं पर्याकुल आसीत् । हन्त, किन्नु कुर्युस्ते ? अमङ्गलप्रस्थानकर्णधारकुख्यातिवशान्न तेऽग्रेसरीभवितुं क्षमा ९६ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132