Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ पार्वे भवत्पुत्रकृते मे हस्तं याचितुमागत आसीत् । अतो भवान् मे पितरमाकार्य तस्मै मां प्रत्यर्पयतु । पश्चाद् विदुषः पृच्छतु यद् भवन्निर्णय उचितो वाऽनुचितो वेति'। श्रेष्ठी तदुक्तं कृतवान् । विद्वद्भिरपि स्नुषा पृष्टा - 'भवतीदृशमुक्तवती खलु?' तयोक्तम् – 'आम्, मया कथितं तत् । परन्तु नाऽस्ति तत्र किञ्चिदयुक्तमिति मन्येऽहम्' । विद्वांसः पृष्टवन्तः - 'कथमिव ?' सोक्तवती - 'पर्युषितमन्नं भुङ्क्ते - इत्यस्याऽर्थोऽयं यत् स स्वीयपूर्वकर्मणां फलमिह भुनक्ति । सहैव स भिक्षुकमुपेक्षितवान्' अतो मया चिन्तितं यत् - स भविष्यदर्थं न किञ्चित् सत्कर्माऽऽसेवते । ततश्च मया सक्षमाप्रार्थनं स प्रतिवेशिगृहं प्रेषितः । विद्वांसो भवन्तः सर्वेऽपि शास्त्रज्ञाः । भवन्त एव निर्णयन्तु-किं मयाऽत्राऽयुक्तं कृतम् ?' एतच्छ्रुत्वाऽऽनन्दिताः सर्वेऽपि विद्वांसस्तां नमस्कृत्य धनिकश्रेष्ठिनं बोधितवन्तो यद् – 'भोः श्रेष्ठिन् ! भवत ईदृशी गुणवती पुत्रवधूः प्राप्ता-इत्येतदर्थं भगवत आभारं मन्यस्व' । (मूललेखकः राजु दवे [मरमगहरा इति पुस्तके]) வவவவவ வட வட வட வட வட வட வட வட यदा कश्चिच्छृणोति स्म, तदाऽहं क्षोभमनुभवामि स्म; यदा च वक्तुमुद्यतो जातः, तदाऽवसर एव न लब्धः; यदा चाऽवोचम्, तदा कोऽपि श्रोतैव नाऽऽसीत; इदानीमहमेव वक्ताऽहमेव श्रोता !! (मूलकूतिः - फिलिप क्लार्क) ७९ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132