Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 93
________________ कथा पापिनी ! मुनिरत्नकीर्तिविजयः (गूर्जरभाषायां ले० - झवेरचंद मेघाणी) "साधुवादः पुत्रि ! साधुवादः" - यच्छ्रवणायोत्सुकः श्याम आरात्रि जानुमध्ये मुखं संस्थाप्य मध्ये मध्ये च गृहद्वारमुद्घटितं न वेति जिज्ञासयाऽन्धकार १ ॐ एव गृहं प्रति पश्यन्, गृहमध्ये च किं प्रवर्तत इत्यन्तर्गतसञ्चरणेनैव ज्ञातुकामः कर्णौ ॐ उत्तेजिताविव कृत्वा दत्तावधानो भग्न एव फलक उपविष्ट आसीत् तदेतद् सुखदं वाक्यं प्रातः सार्धचतुर्वादने श्रोत्रपथमुपयातम् । * पञ्चवादने च द्वारं निःशब्दमुद्घटितं जातम् । हस्ते स्यूतं गृहीत्वा ES % वृद्धश्चिकित्सकमहोदयो बहिरागतः । श्यामः सहसोत्थाय धावन्निव तत्समक्षमुॐ पस्थितवान् । स्वकीयं भाग्यं श्रोतुमिव स समुत्सुक आसीत् । वेगेनाऽऽगतस्य श्यामस्य स्कन्धोपरि स्निग्धमपि दृढं हस्तं संस्थाप्य वृद्धश्चिकित्सको नसरवान्महोदयः - यं च ग्रामजनाः सर्वेऽपि 'पितामह'सम्बोधनेनैव सम्बोधयन्त आसन् - गम्भीररवेणोक्तवान् – “वत्स ! श्याम ! शृणोतु तावत्, तव पत्नी त्वतिश्रान्ताऽस्ति । इदानीमेव बहुप्रयत्नेन सा निद्रिताऽस्ति । अतस्त्वरां मा दर्शयतु नाम परिचारिकाऽन्तरेव स्थिताऽस्ति । सा हि यदा त्वामाहवयेत् तदैव त्वयाऽन्तः प्रवेष्टव्यम् । अन्यथा वृद्ध एष तथा शिक्षां करिष्यति यच्चिरं त्वं स्मरिष्यसि । ज्ञातं ४ किल?" श्यामस्य मस्तके सस्नेहं हस्तं प्रसार्य चिकित्सकमहोदयः सपादपञ्चवादने ततो गतवान् । कारयानस्य चालकमपि सूचितवान् यद् - 'ध्वनियन्त्रं नैव वादितव्यम्। कृ निःशब्दमेव यानं बहिर्नयतु ।' यानं च यावद् गृहाद् दूरं न गतं तावत् तद्द्वारमपि न पिहितं चिकित्सकमहोदयेन । तेन हि चिञ्चावृक्षोपरि स्थितेषु पक्षिषु नैकोऽपि जागृतः ९ स्यात् । शान्तमेव सर्वेऽपि स्थिताः । ॐ पितामह इदानीमपि समक्षमेव स्थित इव श्यामो विनयमुद्रयैव भग्नफलके * जान्वोर्मध्ये मुखं संस्थाप्योपविष्टः । आबहुवर्षेभ्यः स रेलयाने विद्युद्दीपकार्यं l Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132