Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ सोपविष्टाऽऽसीत् । पितामहस्तु किञ्चिद दूरं फलक उपविष्ट आसीत् । वार्ता का प्रवर्तमानाऽऽसीत् । तत्र सवितायाः कथनं श्यामस्य कर्णसाज्जातम् – “किं करवाणि पितामह !? तद्दिनेऽहं पापमार्गे पदं धत्तवती । अस्माकं प्रातिवेशिकः कश्चित् क्षत्रिय आसीत् । तस्य गृहे विवाहोत्सव आसीत् । अगम्येनाऽऽकर्षणेनाऽहमपि सर्वैः सह गानार्थं तत्र गता । तत्र गमनमेव मम क्षतिरासीदिति पश्चाद् मया ज्ञातम् । तत्र हि तस्याऽधिकारिणः पुत्रेण करणेन बलादुपभुक्ताऽहम् !" श्यामः प्रतिरोम शूलारोपणवेदनामनुभूतवान् । "तदनु च पितामह ! अहं पुनः पुनरीश्वरं प्राथितवत्यपि यद् मम प्राणानपहरतु * नाम । आत्मघातस्य निश्चयः कृत एव मया तदा । अन्धकारं प्रतीक्षमाणाऽहं समयं यापयन्त्यासम् । तदैव स समागतः । पिता च मम तत्समक्षं विवाहप्रस्तावं कृतवान् । जगदीश्वरेणैव ममाऽऽर्त्तनादः श्रुत इति मयाऽनुभूतं तदा।" 8 "वत्से !' - पितामह उक्तवान् - "एवं जानत्याऽपि त्वया श्यामस्य - ४ जीवितं कलुषितं कृतम् ?" सवितायाः सगद्गदाक्रन्दनं स्पष्टं श्रूयमाणमासीत् । "सत्यं पितामह ! सत्यमेवैतत् । किन्तु पापमिदं मां यावत् परिदेवयति * ततोऽप्येषा प्रवञ्चना मामतितमां पीडयति - किमर्थं मयैतस्य मुग्धस्य जीवितं . दूषितं कृतम् ?" सविता बहु रुदितवती – “पितामह ! यद्यावयोः संसारः साधारणः । स्यात् तद्येतत् प्रतारणमपि नैव पीडयेत् किन्तु स मां पूजयतीव, ईश्वराद् द्वितीयां ॐ गणयित्वा यां भजतीव । तादृशं च तमहम्...!" "पुत्रि ! तदुपरि च तव कीदृशं प्रेम प्रवर्तते ?" "किमत्र कथयानि पितामह !" सविता पुत्रस्य शिरसि हस्तं संस्थाप्योक्तवती "तस्य कलङ्कमेनं क्षालयितुमेवाऽहमादिनमात्मघातं परिचिन्तयामि । क्वथितधान्यमिव मम जीवितमस्ति । नाऽस्त्यथ मम कस्माच्चिद् भयमपि । किन्तु तेन सह तथा प्रीतिमात्मैक्यं चाऽनुभवामि यद् जल-मीनयोरेव गतिर्मतिश्चाऽऽवयोरपि। तस्यैतादृशं स्नेहं शिरसि कृत्वा स यदप्यादेक्ष्यति तथाऽहं करिष्यामि । तदवचनेन च मरणवरणमपि निःशङ्कं करिष्यामि ।" तिरोहितः श्यामोऽधिकं श्रोतुं न प्राभवत् । ततो निर्गन्तुं स उत्थितः । 8 पितामहस्याऽन्तिमं वचनं तस्य कर्णे पतितम् - "वत्से ! एतावत् प्रेम हि यावत् १ धारवगलिपा कि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132