Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ * सञ्चालयन्ननन्तरदिने आरात्रि जागृतः प्रवासं कुर्वन्नासीदेव किन्तु यथाऽद्य स* 9 गगनस्थितान् तारकाननिमेषं दृष्टवान् न तथा कदाऽपि सावधानं दृष्टवानासीत् । पत्नीः सुखं स्वपितीति श्रवणानन्तरमेव सोऽनुभूतवानासीद् यत् प्रत्यूषकालीनः पवनः शीतलोऽस्ति । वस्त्रमपि प्रस्वेदक्लिन्नं शरीरेण श्लिष्टमित्यपि तेन तदैव ज्ञातं दृष्टं च । श्रान्ता सविता शान्तं निद्रातीत्यनेन स स्वस्थतामन्वभवत् । किन्तु तथाऽपि स सर्वं नाऽवबुद्धवानासीत् । बहुशो यथा बालका 3 लघुवयस्येव सर्वं विशेषेणाऽवबुद्ध्यन्ते तथा कदाचिद् वयस्का युवानोऽपि तावज्जडबुद्धयो भवन्ति यत्ते सांसारिकव्यवहारमपि सम्यग् ज्ञातुं न प्रभवन्ति । श्यामोऽपि तादृश एव कश्चिदबुधो ब्राह्मणपुत्र आसीत् । अपि च ब्राह्मणपुत्रत्वमपि 9 तस्य को नाम मन्येत ? जात्या प्रेत इवैव स आसीत् । नक्तन्दिनं केवलं स श्रमं कर्तुमेव जानाति स्म । एकलमतिः स विद्यालयेऽपि व्यावहारिक शिक्षणं नैव प्राप्तवान्। "श्याम ! पुत्रं प्रसूतवती तव भार्या । ज्ञातपूर्वमेवैतत् किल पितामहसकाशात् !" गृहाद् बहिरागत्य सूतिका यदा तमुक्तवती तदा हि श्यामस्य नेत्रे निद्राभारेणाऽवनते इवाऽऽस्ताम् । 'स्वप्नः किं मया कश्चिद् दृष्टः ? स्वप्ने वा किञ्चित् श्रुतं मया ?' - इति विकल्पयन् यदा पञ्चषनिमेषान् यावदनिमेष स । सूतिकां दृष्टवान् तदैव स निश्चेतुं प्राभवद् यन्नैष स्वप्नोऽपि तु सत्यम् । सविता मां पुत्रमुपहृतवती किल? जीवज्जनं सा मेऽपितवती ! - संसारस्य सामान्येऽप्यस्मिन् वृत्ते जडबुद्धिः श्यामस्तु महत्तपःफलं देववरं वाऽनुभूतवान् । सवितां हि स परमेश्वरीसदृशीमिव भावितवान् । सूतिका कथितवती - "अन्तरागच्छतु नाम । पुत्रं द्रष्टुमुत्सुकः खलु । भवान् ?' "सविता विनिद्रा जाता किल? मामाह्वातुं किं सा सूचितवत्यस्ति ?" पितामहस्य शिक्षावचनं स्मृत्वा स पृष्टवान् । "आम्, आगच्छतु ।" श्यामोऽन्तः प्रविष्टः । कस्मिंश्चिद् देवालय इव मन्दं पदानि निदधन् स सवितायाः खट्वां प्राप्तवान् । सस्नेहं तस्या हस्तं स्वहस्तेन ग्रहीतुं तदिच्छा बलवती 4 जाता किन्तु स्पर्श-निषेधस्य मर्यादां संस्मृत्य स स्वेच्छां संयमितवान् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132