Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ व संस्कृतसंवर्धनपराणि कार्याण्यपि संस्मारयति कथाकृद् व्याजेन । ____ काश्चन मुद्रणत्रुटयः शोधनीयाः सन्ति । तद्यथा - 'सुलभसूत्रम्' (भा०, पृ. १३) कल्पसूत्रेषु 'सुलभसूत्रम्' न वर्तते । अत्र 'शुल्वसूत्रम्' इति पाठः स्यात् । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैः संस्कृतसंस्कृतिप्रणयिभिश्च सर्वथा संग्राह्यः पठनीयश्च । जयतु संस्कृतं संस्कृतिश्च । 'यावद्रत्नचयं दधाति वसुधा ज्योतिश्च यावद्रवौ, यावद् वेदसुमङ्गलध्वनिभरौ जागर्ति मदभारते । यावद् वै द्विजमस्तके सिततपस्तेजो हि विभ्राज्यते, तावद्विशदिवाकरस्य जगति स्थास्यत्यखण्डं यशः ॥' - प्रो. केशवरामशर्माणः (आचार्य०, पृ. ५५) 'सुरभारतीसपर्याकुसुमाञ्जलि:' (समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२ सम्पादिका (श्रीमती) सुरचना त्रिवेदी प्रकाशकः - सुदिशा प्रकाशन, २१५, मिश्राना, लखीमपुर-खीरी, २६२७०१. प्रथमं संस्करणम् - २००९, पृ.सं. ३२+३१६, मूल्यम् - ४००/ १ विश्वस्मिन् जगति संस्कृतभाषा सर्वासां भाषाणां जननीति वयं मन्यामहे। 0 साम्प्रतं संस्कृतस्य संरक्षणाय, संवर्धनाय, लोके च संप्रचाराय यैविद्वद्भिः सततं RE सम्प्रयत्यते, तेषु प्रमुखोऽस्ति आचार्यवर्यो बाबूराम-अवस्थी महाभागः । तस्यैव पूतचरितस्य सुरभारतीसपर्यासमर्पितसमग्रजीवितस्य विविधसामाजिकसांस्कृतिकA) साहित्यिकसंस्थाभिः सम्मानितस्याऽऽचार्यप्रवरस्य कविवर्यस्य साहित्याचार्यस्य साहित्यश्री-संस्कृतश्री-कविरत्न-साहित्यमहोपाध्यायप्रभृत्युपाधिभिश्च संविभूषितस्य अभिनन्दनग्रन्थः 'सुरभारतीसपर्याकुसुमाञ्जलिः' (श्रीमती)सुरचनात्रिवेदिमहाभागया सम्पादितः, श्रीविजयकुमारतिवारीमहोदयेन संयोजितः, सुदिशाप्रकाशनसंस्थया च प्राकाश्यं नीतः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132