Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ ग्रन्थेऽस्मिन् पञ्च पुष्पाणि विलसन्तितराम् । प्रथमे पुष्पे पूर्वपुरुषाणां परिचयेन "साकमाचार्यवर्यस्य जीवनपरिचयः शोभते । द्वितीये पुष्पे - आचार्यबच्चूलालअवस्थीडा. राजेन्द्र मिश्र - डा. शिवबालकद्विवेदी - डा. प्रशस्यमित्रशास्त्रि- आचार्यगिरिजाशङ्करमिश्र - डा. प्रकाशमित्रशास्त्रि - आचार्यमेवारामपाण्डेय - डा. राधेश्यामगङ्गवार• श्रीनारायणसिंहचौहान - सुभाचन्द्र मिश्र - सन्तराम अवस्थी - डा. पुष्पामलिक- श्रीमती वन्दना अवस्थी - डा. प्रेमाअवस्थी - बृजेशनन्दन अवस्थी - डा. श्रीरामसिंहडा. सुधागुप्ता - रामखेलावनवर्मा-सत्यप्रकाश-वी. डी. शुक्ल - बाबूरामविश्वकर्मा• मदनमोहन मिश्र - डा. सत्यप्रकाशमिश्र - सन्तोषकुमारवर्मा - राजकिशोरपाण्डेय - राजेन्द्र• प्रसादतिवारी - प्रभृतीनां प्रशस्तयः शुभकामना अभिनन्दनानि च विराजन्ते । तृतीये ॐ पुष्पे डा. आनन्दमङ्गलवाजपेयि - डा. निरुपमाअशोक-डा० कृष्णकुमार श्रीवास्तव• राजकुमारत्रिवेदि - शिवबालकतिवारी - सत्येन्द्रविक्रमसिंह - डा. सन्तोषकुमारमिश्र* संजीव त्रिवेदी - ओङ्कारनारायणद्विवेदीत्यादीनामाचार्यवर्यगुणकीर्तनपराणि संस्मरणानि राजन्ते । चतुर्थे पुष्पे प्रो. ओमप्रकाशपाण्डेय - डा. गणेशदत्तसारस्वत- डा. नवलता• डा. विजयकर्ण -डा. व्रजेशकुमारशुक्ल - डा. प्रीतिसिनहा - प्रो. हरिदत्तशर्म - डा. राम* विनयसिंह - डा. अनन्तराम मिश्र - डा. रेखाशुक्ला - डा. गीताशुक्ला - डा. शशिप्रभावाजपेयि - डा. कुमारीकामिनीमहेन्द्र - डा. विद्याआचार्य डा. विनोदकुमारगुप्ता• डा. कल्पनाद्विवेदी - पूर्णिमाअवस्थी - कु. भावनामिश्र - शरदकुमार श्रीवास्तवप्रभृतीनामाचार्यवर्यस्य महनीयरचनानां सन्दर्भे शोधोपेताः समीक्षा विभान्ति । पञ्चमे च पुष्पे कतिपयविदुषां पत्रादयो विलसन्ति । ग्रन्थात् प्राक् प्रो. राधावल्लभ• त्रिपाठि -डा. आद्याप्रसाद मिश्र - डा. रमाकान्तशुक्लादिमहाभागानां सन्देशाः सन्ति । लेखद्वयं विहाय सर्वा रचना संस्कृतेन हिन्दीभाषया च प्रणीताः सन्ति । लेखद्वयमाङ्ग्लभाषया लिखितमस्ति । अहं मन्ये - कस्यचिदपि अभिनन्दनग्रन्थस्य साफल्यमभिनन्दितस्य जनस्य *" चरितस्य प्रकाशने, गुणानां कीर्तने, कृतीनां च विवेचने, समाजस्य, देशस्य, राष्ट्रस्य, समग्रजगतो मङ्गले, अशिवस्य च निवारणे, तत्कार्याणां समीक्षणे समन्वयने. • च राजते । आचार्यचरणानामभिनन्दने, समर्चने, तस्य सुरभारतीसपर्यापर्यालोचने, " तत्र च सद्गुणानां वर्णने, कृतीनां शोधपूर्णदृष्ट्या च समीक्षणे, विबुधवर्याणां विविधरचनानां च समावेशने सम्पादिकामहाभागानां प्रयत्ना अत्र नितरां फलन्ति । • ग्रन्थस्य चतुर्थे पुष्पे आचार्यवर्याणां विविधकृतीनां विविधैर्भावैर्विवेचनं प्रसादयति । Jain Education International 2010_04 ७२ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132