Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ - ध्रौव्यमपि नेष्टम् । उत्तरं हि पूर्वस्मात् सर्वथाऽसम्बद्धमपूर्वं चेत्यपि नेष्टम् । किन्तु पूर्वमेवोत्तरस्याऽस्तित्वस्य कारणमस्ति । पूर्वस्य सर्वेऽपि संस्काराः सर्वाऽपि, शक्तिरुत्तरस्मिन् सङ्क्राम्यति । अत एव पूर्वमिदानीमुत्तररूपेणाऽस्तित्वं धारयति । किञ्च उत्तरं पूर्वस्मात् सर्वथा भिन्नमभिन्नं वाऽपि च नाऽस्ति किन्त्वव्याकृतं तत् । यतो भिन्ने सत्युच्छेदवादोऽभिन्ने च सति शाश्वतवादः प्रसजति । तथागतस्य नैतौ द्वावपि सम्मतावत एतादृशप्रश्नान् सोऽव्याकृततयोत्तरयति । तन्मतेन संसारचक्रनिरोधार्थमयमेवोपायो यत्-पूर्वं पूर्वतरं निरोद्धव्यम् । कारणनिरोधेन कार्यं नोत्पत्स्यते । अर्थाद् - अविद्यानिरोधेन संस्कारनिरोधः, ..... तृष्णानिरोधेनोपादाननिरोधः तन्निरोधेन भवनिरोधः, भवनिरोधेन जन्मनिरोधः, ततश्च मरणनिरोधो भवति । अत्राऽपि च प्रश्नोऽयमुत्तिष्ठते यद्-मरणानन्तरं तथागतस्य किं भवति ? किन्त्वस्य प्रश्नस्योत्तरमप्यव्याकृतमेव । यतो यदि मरणानन्तरं तथागतोऽस्तीत्युच्येत तदा शाश्वतवादो, यदि च नाऽस्तीत्युच्येत तदोच्छेदवादः प्रसजति । द्वावप्येतौ वादौ . निषेद्धं बुद्धेन मरणोत्तरदशायां तथागतोऽव्याकृतः कथितः । यथा गङ्गासिकतायाः 7 प्रमाणं नाऽस्ति, समुद्रजलस्य मानं नाऽस्ति, तथैव मरणोत्तरं तथागतोऽप्यव्याकृत उच्यते, गभीरत्वादप्रमेयत्वाच्च । येन रूप-वेदना-सज्ञादिकारणेन तथागतस्य प्रज्ञापना भवति स्म तत् तु प्रहीणम् । अधुना तत्प्रज्ञापनाया न किञ्चित् साधनमित्यतः सोऽव्याकृतोऽस्ति । यथा ह्युपनिषत्सु 'नेति नेति' - इति वचोभिरात्मा ब्रह्म वा निर्विशेषतया प्रतिपादितं तथैव तथागतबुद्धेनाऽप्युपनिषद्भ्यः सर्वथा वैपरीत्येनाऽऽत्माऽव्याकृतः कथितोऽस्ति । एवमुपनिषत्सु यथा परमतत्त्वस्याऽवक्तव्यत्वं मत्वाऽपि व्यवहारेणाऽनेकधा तद् वणितं तथैव भगवता बुद्धेनाऽपि लोकसञ्ज्ञां, लोकनिरुक्ति, लोकव्यवहारं, लोकप्रज्ञप्तिं चाऽऽश्रित्य कथितं यत् – “पूर्वमहमासीत् - नाऽऽसीदिति न, भाविनि, भविष्याम्यहं - न भविष्यामीति न, अधुनाऽहमस्मि - नाऽस्मीति न" । व्यवहारे तु तथागतो भाषामिमां प्रयुङ्क्ते किन्तु स तत्र बद्धो न भवति । वैदिक आत्मवादो बौद्धश्चाऽनात्मवादो विचारितः । अधुना तद्भूमिकाधारेणैव । * जैनगमवर्णितस्तत्त्वविचारः क्रियते । यद्यपि जैनतत्त्वविचारस्तत्कालीनदार्शनिकविचारैः + सर्वथाऽस्पृष्टो नाऽस्ति तथाऽपि जैनानुश्रुतिमाश्रित्येदं वक्तुं शक्यमेव यत्-जैनागम} वर्णिततत्त्वविचारस्य मूलं भगवतो महावीरस्य कालादपि पुराणम् । यतो जैनानुश्रुत्यनु सम ६७ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132