Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ तत्र केचनाऽसत्कारणवादिनः सन्ति, केचित् तु 'सत्कारणवादिनः सन्ति । किन्तु तेषामपि नाऽस्त्यैकमत्यम् । इदं साधर्म्यं त्ववश्यमस्ति यत् - विश्वस्य 3 मूलकारणत्वेन तेषामात्मा पुरुषो वा सम्मतो नाऽस्ति ।। ___ एतद्विपरीततया केचनर्षयो- 'जडतत्त्वेभ्यो विश्वं नोत्पत्तुं शक्यमतस्तदुत्पत्तेमूलकारणतया चेतनतत्त्वेन भवितव्य'मिति मन्यन्ते । तच्च चेतनतत्त्वं किम् ? इति । विषयेऽपि बहवो मतवादा दृश्यन्ते । तत्र च मुख्यतयाऽऽत्मवाद एव राजते । . १ यतोऽन्येषु बहुषु वादेषु सत्स्वपि यो वादः सन्तानानि यावच्चिरेण संस्थितो यश्चोपनिषदां वैशिष्ट्यं मतः स त्वात्मवाद एव । उपनिषदामृषयोऽपि प्रान्ते - 5 'विश्वस्य मूलकारणं परमतत्त्वं वाऽऽत्मैवे'ति निष्कर्ष प्राप्ताः । ऋषीणामेतादृशं पक्षपातं लक्ष्यीकृत्यैवैवं कथ्यते यत् - 'उपनिषदां तात्पर्यमात्मवादे ब्रह्मवादे वाऽस्ती'ति । तच्च परमतत्त्वमात्मानं ब्रह्म वार्षयो नित्यं शाश्वतं सनातनमजन्यं ध्रुवं च मन्यन्ते । . एनमेवाऽऽत्मतत्त्वं ब्रह्मतत्त्वं वा जगत उपादानकारणतया निमित्तकारणतयाऽधिष्ठानतया वा प्रकल्प्य दार्शनिकैः केवलाद्वैतवादो, विशिष्टाद्वैतवादो, द्वैताद्वैतवादः शद्धाद्वैतवादश्चोपस्थापिताः सन्ति । समेषामप्येतेषां वादानामनुकूलवचनान्युपनिषत्सूपलभ्यन्तेऽतः सर्वेषामप्येषां वादानां बीजमुपनिषद एवेत्यत्र नाऽस्ति संशयः । यद्यप्युपनिषत्कालीनाः केचन द्रष्टारो महाभूतान्येवाऽऽत्मन उद्भव-लय-स्थानानीत्य मन्यन्त किन्त्वात्मवादस्य प्रचण्डप्रवाहे तेषां मतं प्रायशो विलीनम् । M प्राचीनोपनिषदां कालो विद्वद्भिः ई.पूर्वं १२०० तः ई.पूर्वं ६०० यावन्निर्णीतो- ' * ऽस्ति । कालोऽयं भगवतो महावीराद् बुद्धाच्चाऽपि प्राक्तनः । अत इदं वक्तुं शक्यं यदेतयोर्महापुरुषयोः पूर्वतनी भारतीयदर्शनस्य परिस्थितिं ज्ञातुमुपनिषद एवोत्तमं । र Sex * ३. असद् वा इदमग्र आसीत् । ततो वै सदजायत । तैत्तिरीयोपनिषत् २.७ ॥ नैवेह किञ्चनाऽग्र आसीन्मृत्युनैवेदमावृतमासीत् । बृहहदारण्यकोपनिषत् १.२.१ ॥ आदित्यो । ब्रह्मेत्यादेशः । तस्योपख्यानम् । असदेवेदमग्र आसीत् । तत् सदासीत् । तत् समभवत् । तदाऽण्डं निरवर्तत । छान्दोग्योपनिषत् ३.१९.१. ।। W४. सदेव सोम्येदमग्र आसीदेकमेवाऽद्वितीयम् । (इत्यादि--) छान्दोग्योपनिषत् ६.२ ॥ । ५. बृहदा० ५.५.१ । छान्दो० ४.३. । कठोपनिषत् २.५.९. । छान्दो० १.९.१., १.११.५, HP ४.३.३., ७.१२.१. ॥ ६-७. Constructive Survey of Upanishadas by Prof. Ranade. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132