Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International 2010_04
पदार्थानां सत्यमस्ति क्षणनश्वरत्वं सम्बन्धानां च सत्यमस्ति स्वार्थः । सत्यं नाम स्वभावः । स्वभावबोधो रागद्वेषादिद्वन्द्वेभ्यः परं करोति । यथा चाकलेहस्य गलनस्वभावं जानन् जनस्तस्य माधुर्यमास्वाद्याऽऽनन्दमेवाऽनुभवति न किन्तु तस्य गलनेन सन्तापमनुभवति । यतो गलनं चाकलेहस्य स्वभाव एवेति स जानाति । एवं यदि सर्वत्र पदार्थसम्बन्धादिषु स्वभावमवबुध्य विवेकेन वर्तेत तर्हि तत आनन्दं प्राप्तुं प्रभवेज्जनः । तेषां च नाशेन वैपरीत्येन वा न सन्तापो जायेताऽपि । साधुसमागमो मोहं विनाश्यैतादृशं स्वभावबोधं विवेकं जनयति ।
तदनु चाऽस्ति दैन्यम् । किमिदं दैन्यं नाम ? इच्छा दैन्यम् । साधुसमागम इच्छां चूरयति न तु पूरयति । इच्छापूरणं दैन्यं शमयति नाऽपगमयति । इच्छाचूरणमेव दैन्यमपगमयति । इच्छाया अभावे दैन्यं न विद्यत एव ।
साधुसमागमः पाप-ताप - दैन्यानां मूलं प्रहरति । वस्तुतस्तु 'पापं तापं च दैन्यं च, हरेत् साधुसमागम:' - इत्युक्त्या सुभाषितकारः कथयति यत् साधुसमागमः साधुत्वं प्रकटयति । पापबुद्धिर्मोहसन्ताप इच्छारूपं च दैन्यं यत्र न विद्यते तत्र साधुत्वमेव भवति नाऽन्यत् किमपि । स्पर्शमणिर्लोहं सुवर्णत्वेन परिणमयति न स्पर्शमणित्वेन तथा गङ्गा शशी कल्पवृक्षश्चैते त्रयोऽपि यद्यपि पापादीन् नाशयन्ति किन्तु न स्वकीयं रूपं प्रददतेऽर्थिभ्यः । परं साधुजनस्तु परान् स्वतुल्यानेव करोति येन ते स्वाधीनाः स्युः इत्यस्ति श्लोकस्याऽस्य तात्पर्यार्थः ।
-
औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥
२३
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132