Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ Jain Education International 2010_04 आत्मा जडकल्पो भवतीति ते मन्यन्ते । तन्मते आत्मनो विभुत्वेऽपि शरीरावच्छेदेनैव ज्ञानादीनामुत्पत्तिरिति ज्ञानादिकं प्रति शरीरं कारणमिति स्वीक्रियते । मुक्तौ शरीराभावाज्ज्ञानाभावः । सुखेच्छायाः सत्त्वे वैराग्यव्याहतिः स्यादिति 'दुःखं मा भू' दितीच्छयैव मुक्त्यर्थं प्रयत्न इति तेषां कथनम् । मुक्तौ दुःखाभाव एव सुखत्वेनोपचर्यते इति ते वदन्ति । अत एव तेषामित्थमुपहासोऽपि श्रूयते - वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् । न तु वैशेषिकीं मुक्ति, गोतमो गन्तुमिच्छति ॥ इति । मीमांसकाः - एतेषां प्रस्थानद्वयम् । एकं प्राभाकराणाम्, द्वितीयं भाट्टानाम् । तत्र प्राभाकराणां मते काम्यनिषिद्धकर्मवर्जनपूर्वकं नित्यनैमित्तिककर्मानुष्ठानेन धर्माधर्मयोर्विनाशे सति देहेन्द्रियादिसम्बन्धस्याऽऽत्यन्तिकविच्छेद एव मोक्षः । आत्मज्ञानमपि तत्र सहकारिकारणम् । एतन्मते मोक्षदशायामानन्दस्याऽप्यत्यन्तोच्छेदो भवति । लक्षणं तुआत्यन्तिकदुःखप्रागभावो मुक्ति: । समानाधिकरणदुःखासहवृत्तित्वमेवाऽऽत्यन्तिकत्वम् । प्रागभावो यद्यप्यनादिः, न कृतिसाध्य:, तथाऽपि तत्प्रतियोगिजनकाधर्मनाशद्वारेण कथञ्चित्कृतिसाध्योऽपि । अत्र ‘अनादिः सान्तः प्रागभाव' इति लक्षणेन दुःखप्रागभावस्याऽन्ते मुक्तेः प्रच्यवनापत्तिः । तस्याऽनन्तत्वे पुनः सोऽत्यन्ताभाव एव भवेदिति अत्यन्ताभावस्याऽनाद्यनन्तत्वेनाऽसाध्यत्वाद् मोक्षस्याऽप्यसाध्यत्वप्रसङ्गः । भाट्टानां म त्रेधा हि प्रपञ्चः पुरुषं बध्नाति - भोगायतनं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्याः शब्दादयो विषयाश्च । भोगः = सुखदुःखविषयोऽपरोक्षानुभवः । तदस्य समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव (मुक्ति:) प्रशस्तपादभाष्यकन्दली १. २. ३. टीका । यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्नाऽवकल्पते ॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? स्वरूपैकप्रतिष्ठानः, परित्यक्तोऽखिलैर्गुणैः ॥ - न्यायमञ्जरी ॥ नित्यानन्दप्रतिपादिका श्रुतिरात्यन्तिके दुःखवियोगे भाक्ता न्यायवार्तिकतात्पर्यटीकायां वाचस्पतिमिश्रः । आत्यन्तिकस्तु देहोच्छेदो निःशेषधर्माधर्मपरिक्षयनिबन्धनो मोक्षः । - प्रकरणपञ्जिका । ४० For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132