Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 42
________________ जीविनां कृते तु तानि सर्वथाऽनुचितानि । चिक्रोडसदृशो जीवी यदि परोपकारं कर्तुं । " समुद्यतो भवेत् तदा तस्य स्वस्य त्वपकार एव स्यात्, प्रायशश्च कुमरणमेव स्यात् । Com यद्युत्क्रान्तिवादस्य सिद्धान्तः सत्यः स्यात् तदा भोजनमग्नानामपायेभ्योऽसाव- 4 धानानां च चिक्रोडानामन्यतम एवाऽऽखेटकस्य भक्ष्यं स्यात् । किन्तु तथा न.. * भवति, यतो रक्षकचिक्रोडस्य सूचनानन्तरमन्ये सर्वेऽपि चिक्रोडा: पलायन्त एव Cop तत्स्थानात् । अत: प्रश्नस्त्वत्राऽन्योऽप्युत्तिष्ठते यत् स रक्षकचिक्रोड केन वा हेतुनेदं 40 * करोति ? - अन्यमपि दृष्टान्तं पश्यामः । पिपीलिकानां प्रायशः पञ्चदशसहस्रं जातयः Chd सन्ति । तासु काश्चन जातयः सौचिकपिपीलिकाः (Weaver ant) इति कथ्यन्ते । Cab T: स्वनिवासार्थं वल्मीकं विवरादि वाऽनिर्माय सौचिकवत् सीवनं कृत्वा पर्णानां गृहं निर्मान्ति । तदर्थं च ता द्वित्राणि बृहत्पर्णानि समन्वित्य तत्प्रान्तेषु कौशेयसूत्रेण सीवनं कुर्वन्ति । बाधस्त्वत्राऽयमेव यत् परिणतवयाः पिपीलिकाः कौशेय मुत्पादयितुमसमर्था भवन्ति, केवलं तस्याः डिम्भ(larva)रूपमेव स्वस्य कोशकरचने या उपयुक्तं कौशेयमुत्पादयितुं शक्तः । किञ्च, अण्डानां रक्षणार्थं राज्याश्च सुखनिवासार्थं पर्णगृहरचनमावश्यकमेव । अतः सौचिकपिपीलिकानां सैन्यं तन्निर्माणार्थं प्रवर्तते 4 एव । एतदर्थं सर्वप्रथमं तु ताश्छिद्ररहितानि पर्णानि शोधयित्वा उपदशाः पिपीलिकाः परस्परमभिमुखीभूय पर्णप्रान्तयोः पङ्क्तिशस्तिष्ठन्ति । ततस्तौ प्रान्तौ मुखेन गृहीत्वा CEP परस्परं निकटं समानयन्ति । एतावता काश्चन पिपीलिकाः यैरधुनाऽपि कोशकरचनं पता * नैव समारब्धं तादृशानि कानिचन कीटडिम्भानि मुखेन गृहीत्वा तत्रोपस्थिता * भवन्ति । ततस्तास्तानि कीटडिम्भानि द्वयोः प्रान्तयोर्मध्ये इतस्ततः सञ्चारयन्त्यः C) सीवनं कुर्वन्ति कौशेयसूत्रेण । अत्रेदं चिन्तनीयं यत् कीटडिम्भशरीरे कौशेयमतिसीमितं, केवलं तत्कोशकरचनयोग्यमेव भवति नाऽधिकम् । यदि तेन स्वीयमस्तित्वमवस्थापनीयं तदा तेन । स्वीयं कौशेयं कोशकरचनार्थमेवोपयोक्तव्यम् । एवं सत्यपि समग्रस्य पिपीलिकासमाजस्य कृते स कीटडिम्भो निजं सर्वमपि कौशेयं विश्राणयति । तथा च स कीटडिम्भः पिपीलिकावतारं नैव प्राप्स्यति । तस्याऽऽयुर्जीवनं वा केवलं निवासनिर्माण ★ पतङ्गस्येव पिपीलिकाया अपि अण्डं, कीटडिम्भः, कोशकः, पिपीलिका चेति अवस्थाः भवन्ति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132