Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
[विध्यरे प्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन, इदमेव तावदस्तु रूपादिष्वालम्बनार्थो वक्तव्य इति विकल्प्य विकल्पद्वये दोषजातं तल्लक्षणे प्रक्रान्तं तत्तवापि समानमिति प्रतिपादयिष्यन्नयचक्रकारः सविशेषं तन्मतविरोधहेतुं स्ववचनजनितमाह
अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यथाभासं तेषु ज्ञानमुत्पद्यते, तथा त । आलम्बनं रूपादयः, प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् समुदयकृतं तन्निर्भासतयाऽऽलम्बनम् ।
(अनेकार्थेति) अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायामित्यादि शिष्याचार्ययोः तुल्योत्तरत्वात् , स्वार्थ इति नीलादिः स एव किल सामान्यमनेकार्थजन्यत्वात् , अनेकार्थाः परमाणवस्तजन्यं
नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इति, एतस्यामनेकार्थजन्यत्वाच स्वार्थसामान्यगोचरतायां यथाभासं 10 तेषु ज्ञानमुत्पद्यते तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमि
येतदिष्टम् , किं कारणं त एव नीलादिपरमाणवो नालम्बनमिति चेदुच्यते प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् , एकमेकं प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वाद्बुद्धावसन्निवेशः, तस्मात् किं प्राप्तं ? समुदयकृतं तन्नि सतयाऽऽलम्बनमित्येतत् प्राप्तं, नीलादिरूपस्य तत्समुदायात्मकत्वात् ।
... एवञ्च सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं 15 प्रत्यक्षमिति ज्ञानमर्थेन विशेष्यते ।
(एवञ्चेति) एवञ्च सति-परमाणुसञ्चयनीलादिनिर्भासतयाऽऽलम्बनत्वे सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा-अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थन विशेष्यते, अर्थेनेन्द्रियस्य सन्निकर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता, सन्निकर्षाद्वाऽक्षं प्रति यो वर्ततेऽर्थः स प्रत्यक्षः, अर्थन्द्रियसन्निकर्षादक्षं प्रतिवृत्तेः प्रत्यक्षमितत्वादुपचरित20 वृत्तिरर्थोऽक्षेण विशेष्यत इति ।
अत्रोत्तरमुच्यते
न तदुपपद्यते प्रत्यक्षम् , तस्यार्थस्याभावात् , न च सञ्चयोऽर्थः, संवृतिसत्त्वात् संवतिसत्त्वमद्रव्यत्वात् , वान्ध्येयवत् , अतो न साधूत्पत्तिप्रत्यय इष्यते इति सोऽर्थो न विशे
षणेन विशेष्यः। तस्माज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः। 25 (नेति) एवञ्च सतीत्युच्चार्य सञ्चयः प्रसक्त इत्यभ्युपगम्य दूषयति-यस्मान्न च सञ्चयोऽर्थः,
माणूनां तत्सञ्चयस्य च गोचरत्वादिति भावः। अथ ततोऽर्थाद्विज्ञान प्रत्यक्षमिति वसुबन्धुलक्षणं दूषयता दिन्नेन तदुपरि रूपादिध्वालम्बनार्थो वक्तव्य इति विकल्पद्वयं विधाय दूषितम् , सूरिश्च तदेव दूषणं तवापि प्रसज्यत इत्याह-अनेकार्थजन्यत्वाञ्चेति। प्रत्यक्ष नीलादिविषयं नीलादिरेवेन्द्रियस्य स्वार्थः समुदयकृतः स निर्भासतयाऽऽलम्बनमनेकार्थजन्यत्वात् , परमाणुरूपन्तु
अतीन्द्रियत्वेन बुद्धावसन्निवेशानालम्बनमिति भावः । परमाणुसश्चयेति, परमाणूनां सञ्चयरूपं यन्नीलादि तस्यैव निर्भास 30 तया प्रत्यक्षस्यालम्बनत्वे सति प्रत्यक्षशब्दस्यार्थ एवं ज्ञायत इत्यर्थः । ज्ञानमर्थन विशेष्यत इति, नीलादिनाऽर्थेन ज्ञानं विशेष्यते नीलज्ञान पीतज्ञानमिति विषयाणां प्रत्यक्षपदबोध्यत्वमुपचारादित्याह-सन्निकर्षाद्वति । घटः प्रत्यक्षः नीलं प्रत्यक्षमित्येवमर्थोऽक्षेण विशेष्यते । संवृतिसत्त्वेनार्थस्य सञ्चयस्याभावानालम्बनत्वं सम्भवति, अतः प्रत्यक्षं निरालम्बनमिति किं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/aa2a291c584a99b3000c08931b61cdd571bb1ad1ab0f098be5277fe571ecac38.jpg)
Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354