Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 305
________________ क्रियाकालयोरभेदः] न्यायागमानुसारिणीव्याख्यासमेतम् काममोक्षास्तदर्थाश्च शास्त्रारम्भास्तदुपदेशाश्वानर्थकाः प्राप्नवन्ति । किं कारणं ? भावस्यान्यथाभावाभावात् , यस्मान्न लेनैव भाविनोऽभावः, अभाविनश्च भावः, तस्माद्धावस्यान्यथाभावाभावात् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्यम् , तस्माच लोकागमविरोधौ, लोके सर्वागमेषु चारम्भपयो. जनाभिधानानां प्रसिद्धत्वात् । किश्चान्यत् क्रियात एवौदनतृप्त्यादिफलप्रसूतेश्च प्रत्यक्षविरोधः, एवं नियतेरेवैवमिति चेत्र, कालानन्तरक्रियाया एवैवंक्रियानियतिरिति संज्ञामात्रे विसंवादात् , एवमपि क्रियासिद्धौ कालासिद्धिरिति, न कालानन्तरत्वात् क्रियायाः। (क्रियात इति) क्रियात एवौदनसिद्धिः, नौदासीन्येनासितुः कदाचिन्नियतेरेव केवलायाः । सिद्धस्य चौदनस्य फलं तृप्तिः, सापि मुखे कवलप्रक्षेपासनादि क्रियात एव भवन्ती दृष्टा, 10 ओदनजन्यतृप्तेर्बळवारोग्यादिफलञ्चान्तर्गतात्मरसरुधिरादिविभागपरिणमनक्रियातः, तस्याश्च क्रियाप्रसाध्यतृप्यादिहेत्वोदनसिद्धिसिद्धौदनजन्यतृप्तिबलवर्णारोग्यादिफलप्रसूतेः प्रत्यक्षत्वान्नियतित एवेति वादे प्रत्यक्षविरोधः । एवं नियतेरेवैवमिति चेत्-एवंविधैषा नियतिः क्रियानियतिरित्युच्यते, अस्याः क्रियानियतेरोदनतृप्त्यादिफलप्रसूतिनियतिरित्येतञ्चायुक्तम् , कालानर्थान्तरक्रियाया एवैवं क्रियानियतिरिति संज्ञामात्रे विसंवादात्-अभ्युपगतं तावत्त्वया एवं नियतेरेवैवमिति ब्रुवता काष्ठादिसाधनसन्दर्भया 15 लौकिक्या पचिक्रिययैवौदनसिद्धितृप्त्यादिफलप्रसूतिनियतिरिति, एवंशब्दस्य तदर्थत्वात् , सा च क्रिया नियतिः फालक्रियापर्यायत्वात् कालनियतिः, नियतेः क्रियायाश्चैकार्थत्वात् तस्मादावयोः संज्ञामात्रे विप्रतिपत्तिर्नार्थे । अत्राह-एवमपि क्रियासिद्धी कालासिद्धिरित्यत्रोच्यते, न, कालानर्थान्तरत्वात् क्रियायाः, क्रिया काल इत्यनर्थान्तरम् , कालेनैव क्रियाख्येनैव नियतिरिति ब्रुवता स एव काल इत्युक्तं भकति, कालक्रिययोरनन्तरत्वात् कालनियतिः क्रियानियतिरिति संज्ञामात्रे विसंवादात् पूर्ववदिति । 20 स्पेति, नहि नियत्या भवन्तं कञ्चित् लोकशास्त्रारम्भाभ्यामन्यथा कर्तुं शक्यते अभाविनं वा ताभ्यामेव कत्तुं शक्यत इति भावस्यान्यथाभावाभावाल्लोकशास्त्रारम्भी वृथैवेति भावः । किञ्च लोके ओदनपचनादिक्रिययैव तृप्यादिफलं दृश्यते न तु नियत्या, तथासत्यकर्तुरपि ओदनतृयादिफलं भवेन चैवमतो न नियतिकारणकत्वमित्याह-क्रियाया एवेति, एवशब्दोऽयोगव्यवच्छेदाय अयोणे फलस्य व्यवच्छेद इति भावः । पचनस्य फलमोदनं तस्य फलं तृप्तिः, सा च न मुखप्रक्षेपग्रसनादिव्यतिरेकेण, आदिशब्देन तृप्तेः फलं बलादिक ग्राह्य, तदपि नान्तरात्मनो रसरुधिराद्यनुकूलपरिणमनक्रियाव्यतिरे-25 केणेति भावः । क्रियात एवौदनादेदृष्टत्वात् प्रत्यक्षविरोध इत्याह-तस्याश्चेति । ओदनतृह्यादिफलप्रसूतिरपि तथाविधनियतेरेव भवति, एषैव च क्रियानियतिरित्युच्यत इत्याशङ्कते-एवं नियतेरेवेति, एवं वदता भवता क्रियाया एव नियतित्वमुक्तं सा क्रियैव काल उच्यते, नियतेर्हि एवं वं विशेषणतयोपादीयते, तच्चैवंविधत्वं पूर्वापरीभाव एव कारणकार्यत्वापरपर्यायः पूर्वत्वमपरत्वञ्च क्रियैवेति कालापरपर्यायक्रियाया नियतित्वोक्त्या कालः खीकृत एव त्वया,. परन्तु तां कियां काल इत्यनुक्त्वा नियतिरिति नाम कियते तत्रैवावयोर्विवादः पर्यवसितो न वस्तुनीति भावः । ननु क्रियायाः सिद्धिरस्तु नाम कालस्य कथं 30 सिद्धिः येन नाममात्रे विसंवादः स्यादित्याशङ्कते-एवमपीति, क्रियात एवौदनतृप्त्यादिदर्शनेऽपीयर्थः । क्रियेव काल उच्यत इत्युत्तरयति-कालानर्थान्तरत्वादिति, भावानां हि क्रमवन्तः क्रियाविशेषाः कालाधीनत्वात् काल एवेति व्यवह्रियन्ते. भावानां स्थितिप्रसवनिरोधावस्थासु कालव्यवहारस्याविनाभावित्वात् , अतश्चेष्टाहेतुत्वान्यापार एवाभेदेन काल उच्यते, ततः क्रियासिद्धौ कालः सिद्ध एवेति नाम मात्र एव विसंवाद इति भावः। अथ काललक्षणक्रियाया एव नियतित्वेनाभ्युपगमे Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354