Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 315
________________ कालाद्भावमैदः] न्यायागमानुसारिणीव्याख्यासमैतम् २६५ .... (नन्विति) ननु कृषीवलादिभिरपि पर्युपास्यते इति, किं पुनर्विद्वद्भिरित्यर्थः, तथा तथायथा यथाऽसौ कालो व्यवतिष्ठते तथा तथा पुरुषः पर्युपास्ते, आविर्भूतश्ताङ्कुरकालो न तावदाविर्भूत इत्याविर्भूतानाविभूतात्मा । तस्मादेव च वर्तनालक्षणादवगमितद्रव्यक्षेत्रभावात्मनः कालात् परमनिरुद्धसमयत्वेनामिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, स एष पुनरनुभावः कालस्य प्रभु । विभुत्वाभ्याम् । एकसमायामपि भावभेदाः संवत्सरवर्तनात् , संवत्सरे मासवर्तनात् , मासे दिनवर्त्तनात्, दिने मुहूर्त्तवर्तनात् , मुहूर्ते लग्नवर्त्तनादेवं नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति, एकस्मिन्नन्यथेति चेन्न, कालदोषभावात् । तस्मादेव चेत्यादि, तस्मादेव वर्तनालक्षणात् कालादवगमितद्रव्यक्षेत्रभावा आत्मानोऽस्य तस्मादवगमितद्रव्यक्षेत्रभावात्मनः, अवगमितद्रव्यक्षेत्रभावात्मकादित्यर्थः, प्रागवगमितं द्रव्यं भूम्या- 10 दिनीयादिद्रव्यात्मा काल इति, घटो प्रीवादय इति क्षेत्रं भावो रूपादयो न केचिद्युगपदात्मिकां वृत्तिप्रख्याति कालमन्तरेणेति कालत्वावगमनं वर्त्तत एष, तस्माद्रव्याद्यात्मकात् कालात्, सुषमसुषमादिभ्य उत्सर्पिण्यवसर्पिण्याख्यकालभेदेभ्यः परमनिरुद्धसमयत्वेनाभिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, तद्यथा-सुषमसुषमायां सुषमायां सुषमदुःषमायाश्चात्रैव भारते क्षेत्रे देवलोकवद्भवन्ति प्रतनुक्रोधमानमायालोभास्त्रिद्वयेकगव्यूतोच्छ्रितदेहास्तावत्पल्योपमजीविन्यो मिथुनधर्मिकाः प्रजा मत्ता- 15 प्रादिकल्पतरुकल्पितोपभोगविधयः, स्वादुसुरभिजला चतुरङ्गुलहरिततृणा निम्नोन्नतवर्जिता सुरभिस्वादुरसा सुखस्पर्शादिगुणा भूमिरित्यादि । स एष पुनरनुभावः कालस्य प्रभुविभुत्वाभ्याम् , काल एव हि प्रभवति विभवति च, सर्वभावभेदानामुत्पत्तिस्थितिप्रलयेष्वात्मप्रभेदमात्रत्वात् । तथा दुःषमसु. इत्युक्ता, अथ तस्मादेव भिन्नात् कालात् नानाविधा भावमेदा भवन्तीत्याह-तस्मादेव चेति, अवगमिताः-पूर्व व्यावर्णिता द्रव्यक्षेत्रभावा आस्मानः स्वरूपं यस्यासौ कालस्तस्मादिति विग्रहः, अमुमेवार्थमाह-प्रागवगमितमिति वर्तितुर्भूम्यादिब्रीह्या- 20 विद्रव्यादनान्तरभूतत्वाद्वर्तनालक्षणकालस्य भूम्यादिनीयादिकालद्रव्यमुच्यते, तस्यैव द्रव्यस्य यो विवृत्तिलक्षणः पर्यायापरनामा घटादिपरिणामः स क्षेत्रकालः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरत्वात् , तस्यैव गुणपर्यायो रूपादयो भावकाल इति, एते च युगपत्तिखरूपं वर्तनमनुभवन्तो न कालमन्तरेण भवन्ति तस्मात् कालत्वमेतेषामवगमितमिति भावः। एकरूपस्य कालस्य मेदान् तत्फलानि चाह-सुषमसुषमादिभ्य इति, सुष्टु शोभनाः समाः वर्षाणि यस्यां सा सुषमा 'निर्दुःसुवेः समसूते:'(सिद्धहे.२-३-५६) इति षत्वम् । सुषमा चासौ सुषमा च सुषमसुषमा। सुषमसुषमा, सुषमा, सुष-25 मदु:षमा, दुःषमसुषमा दुःषमा, दुःषमदुःषमेति क्रमेणांवसर्पिण्या अरकाः, उत्सर्पिण्याश्चैत एव व्युत्क्रमेण ज्ञेयाः, अवसपेन्ति क्रमेण हानिमुपपद्यन्ते शुभाभावा अस्यामित्यवसर्पिणी, अस्यां समस्ता अपि शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते, अशुभाश्च . क्रमेणानन्तगुणतया परिवर्धन्ते, दशसागरोपमकोटीकोव्यात्मकोऽयं कालमेदः, इदमेव भरतकालस्वरूपम् । सुषमसुषमाधरक. त्रयाश्रयेण फलं दर्शयति-तद्यथेति, तत्र प्रजाधर्ममाह-प्रतन्विति, इदश्च सुषमसुषमाद्यरकत्रये विज्ञेयं युग्मिनां प्रतनुको. धाधुक्तः तथा त्रिगव्यूतोच्छ्रितदेहः प्रथमारकप्रथमसमये युग्मिनाम्, ततः प्रतिसमयं हासात् । द्वितीयारके सुषमाप्रथमसमये- 30 द्विगव्यूतोच्छृितदेहो युग्मिनाम् , तृतीयारके सुषमदुःषमायाः प्रथमसमये एकगव्यूतोच्छृितदेहो युग्मिनाम्, ततो हासात् तथाऽऽयुरपि विडेयम्, मत्तामृतात्रटिताङ्गदीपशिखाज्योतिषिकचित्राङ्गचित्ररसमण्यनगेहाकाराभिधानाः कल्पवृक्षा अन्वों भवन्ति, भूमिखरूपं दर्शयति-खाद्विति । तदेवं भावानां माहात्म्यं कालेनैव भवति, सर्वकार्यमात्रकारणत्वात् , कार्यकारणयो. रभेदाच काल एव तथा तथा प्रभवति, सकलवस्त्वाधारतया च विभुः न हि वर्तनव्यतिरेकेण कोऽप्यात्मलाभ लभत इति काल एवं प्रभुर्विभुश्चेत्याह-स एव इति । अथ दुःषमसुषमायरकत्रयाश्रयेण वस्तुवैचित्र्यमादर्शयति-तथा दुषमेति, दुःषम- 35 द्वा. न. ३४ www.jainelibrary.org Jain Education International 2010_04 For Private & Personal Use Only

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354