Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 333
________________ एतनयास्पर्शित्वमेषाम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २८३ कां० १ श्लो० १) इत्यादिकारणवादा भिद्यन्ते संज्ञादिभेदात् । ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्त्तन्ते, यस्मात् संक्षेपेणायं सर्वोऽपि यत्नः सामान्यभिन्नखरूपोपादानेनैव स्वाभिमतनिराकरणाय भवति, तद्यथा-पुरुषवादिनः पुरुषादन्यदवस्तु, अपुरुषत्वाद्वन्ध्यापुत्रवत् तथा नियतेरन्यदनियतित्वात् , वर्तनादन्यदवर्तनात्वात् , स्वभावादन्यदस्वभावत्वाद्वन्ध्यासुतवदवस्त्विति ब्रुवतां पुरुषनियतिकालखभाववादिनामात्मात्मवस्तुनो द्रव्यार्थवृत्तस्य तत्पर-5 मार्थस्य तत्त्वानां सर्वैकत्वनित्यत्वकारणमात्रत्वसर्वगतत्वानां धर्माणां प्रतिपादनार्थमुद्यतानां वादिनां अन्यदवस्त्विति खतो भिन्नान्यार्थाभ्युपगमेनैव तत्प्रतिपादनं नान्यथेति तत्प्रतिपादनार्थो यत्रः सामान्यभिन्नखरूपोपादानमन्तरेण नास्तीति स यत्नः स्वाभिमतपुरुषाद्यर्थनिराकरणायैव भवति, भिन्नार्थाभ्युपगमात् । कथमिति तदर्शयति- . .. 10 पुरुषवादे तावज्ज्ञानमयो न रूपादिमय इति रूपादीनां तन्मयत्वात्तानि च रूपादीनि कार्यात्मानः, तेषां तन्मयत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि । तस्मात् पुरुषस्यैकत्वनित्यत्वकारणत्वसर्वत्वानि निराक्रियन्तेऽवस्थानां पुरुषमयत्वात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपि। ' (पुरुषवाद इति) पुरुषवादे तावत् ज्ञानमयो न रूपादिमय इति रूपादीनां-तत्सुषुप्तावस्था- 15 मात्रत्वाभिमतानां तन्मयत्वात्-ज्ञानात्मकपुरुषमयत्वात् , तानि च रूपादीनि कार्यात्मानः कार्यात्मनां तन्मयत्वे-चेतनैककारणात्मत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि तन्मयत्वात् प्रत्येकपरिसमाप्तत्वाञ्च तेषां प्रत्यक्षत उपलभ्यत्वाच्च । तस्मात् पुरुषस्यैकत्वनित्यत्वकारणत्वसर्वत्वानि दिनिधनं तद्ब्रह्मेति प्रतिज्ञायते यतोऽनवच्छिन्न रूपाभिमतानामपि विकाराणां प्रकृत्यन्वयात्, व्यापकश्च सर्वशब्दरूपतया सर्वशब्दो. पग्राह्यतया च शब्दतत्त्वमभिधीयते तच्चानिमित्तत्वादक्षरम् । विवर्ततेऽर्थभावेनेति, एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्या. 20 विभक्तान्यरूपोपग्राहिता विवर्त्तः, स्वप्नविषयप्रतिभासवत् शब्दार्थोभयरूपमिति भावः, प्रक्रियेति, यतः शब्दाख्याडुपसंहृतकमाद्ब्रह्मणः सर्व विकारप्रत्यस्तमये वर्तमानादव्याकृतात् पूर्व विकारप्रन्थिरूपत्वेनाव्यपदेश्याज्जगदाख्या विकाराः प्रक्रियन्ते इति . श्लोकार्थः । सर्व कार्यजननशक्तिमतोऽनादिनिधनब्रह्मणो भेदसंसर्गः शक्तिभेदमूलकारोपितभेदसंसर्गरूपं विवर्तात्मकं जगदित्यर्थः, विभागः.संसर्गः संयोगः । एते हि कारणवादाः परमार्थद्रव्यार्थविधिविधिनयस्वरूपं न स्पृशन्त्येव, केवलं पदार्थप्रपञ्च संक्षेपेण निरूपयितुमेव तत्तद्वादिनां प्रयासः, स च वस्तुतः खाभिमतनिराकरणायैव भवति, खस्मात्सामान्याद्भिन्नस्यान्यस्यार्थ.25 स्योपादानादित्याशयेनाह-संक्षेपेणेति । भावार्थ दर्शयति तद्यथेति पुरुषनियतीति, पुरुषादिवादिनां द्रव्यार्थतयाभिमतस्य खखपुरुषादिवस्तुनः सर्वैकत्वनित्यत्वकारणमात्रत्वसर्वगतत्वप्रतिपादनाय प्रयत्नोऽन्यदवस्त्विति खेतरार्थनिषेधमुखेनैव दृश्यते, तथा निषेधन्तोऽपि पुरुषादितो भिन्ना अवस्था अभ्युपगच्छन्त्येव, तेनैव खाभिमतनिराकृतिर्भवतीति भावः । सामा. न्येति, सामान्यात्मकस्वाभिप्रेतपुरुषादिभिन्नवस्तुखरूपस्वीकारव्यतिरेकेणेत्यर्थः । भिन्नार्थति, पुरुषादिव्यतिरिक्तार्थाभ्युपगमादित्यर्थः । कथं खाभ्युपगमव्याघात इत्यत्राह-पुरुषवादे तावदिति, पुरुषो हि वस्तुतो ज्ञानमय एव न रूपादिमयः, 30 रूपादयश्च पुरुषस्य चतुरवस्थासु सुषुप्तावस्थामात्रम्, अतो रूपादयः पुरुषस्य कार्यात्मानः, तेषाश्च तदात्मत्वं पुरुषस्यैव जगद्रूपेण परिणतत्वात् , एवञ्च तदात्मत्वे रूपादिनां पृथक् पृथक् प्रत्यक्षतो दृश्यानामनेकत्वानित्यत्वकार्यत्वासर्वगतत्वेभ्यः . पुरुषोऽपि अनेकानित्यकार्यासर्वगतरूपः स्यात् , एकनित्यादिरूपो न स्यात् , इत्येवं सर्वस्य पुरुषात्मकत्वप्रतिपादनयनो द्रव्यार्थतयाऽभिमतपरुषादेः सर्वैकत्वादिनिराकरणलक्षणदोषेण दषित इति भावः। इममेव भावमाविष्करोति परुषवादे ताव. दिति टीकायाम् । अवस्थाभ्युपगमेन यथा पुरुषवादे खाभिमतनिराकरणं दोषस्तथा बाल्यादिपूर्वोत्तराद्यवस्थासु नियत्यादे- 35 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354