Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
स्वभावाभावः] न्यायागमानुसारिणीव्याख्यासमेतम्
२८७ करणे तथा ह्यर्थगतिः' (महाभाष्ये ३-१-१२) इति । भावशब्दार्थव्यावृत्त्यर्थं कर्थोपादानात् , यदयं भवतीति, भावशब्दस्य स्वशब्दविशिष्टस्य स्वरूपोक्तस्वशब्दोऽप्यनर्थकः । तस्माद्यदपि व्यावर्त्यते तदपि च भवेदेव, व्यावय॑त्वादब्राह्मणवत्, वैधयेण असत् , तत्कुतः ? असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावर्त्यत्वात्, खपुष्पवत् । व्यावर्त्यस्य सत्त्वेऽनुमानान्तरमप्याह-किञ्चित्वाद्वस्तुत्वादर्थत्वादादिनहणात् प्रमेयज्ञेयसत्त्वादिभ्योऽपि, दृष्टान्तः स्ववदिति, यथा स्वं व्यावाद्विभक्तत्वात् किचिद्वस्त्वर्थः । प्रमेयं ज्ञेयं सच्च तथा व्यावर्त्यमपि सत् ज्ञेयं प्रमेयमर्थो वस्तु किञ्चिद्वा प्रसक्तत्वादेव, तस्मात्तद्भवेदेव।
किश्चान्यत्. अयश्च स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा? तत्र व्यापित्वे त्यक्तस्वपरविशेषणः स्यादेकरूपत्वात् , प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्? .
अयश्च स्वभाव इत्यादि, अयश्च त्वदिष्टः स्वशब्दविशिष्टो भावः किं व्यापी प्रतिवस्तु 10 परिसमाप्तो वा ? यदि व्यापी सर्वगत एक एव, तस्मिन् व्यापित्वे त्यक्तस्वपरविशेषणः स्यात् , एकरूपत्वात् , तस्य पररूपाभावात् स्वशब्दोपादानं परशब्दोपादानञ्च निरर्थकमेव । अथ वस्तुनि बस्तुनि परिसमाप्तेः प्रतिवस्तु, ततः प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्, लोकवादो हि घटस्य घट एव स्वभावो नान्यः, पटस्य पट एवेति श्रूयते, घटादिपृथग्भूतो न कश्चिदेक इति स यदि तथा प्रतिवस्तु कल्प्यते न किञ्चित्तेन लोकवादाभिन्नफलेनार्थः कल्पितेन, तस्मान्नैकः कश्चित्स्वभावो 15 यथा पूर्व स्वभाववाद्युपवर्णितः सिद्ध्यति, किं तर्हि ? लौकिक एव सिद्ध्यति ।
किश्चान्यत्
स्वभावाभाव एव च प्रसक्तः, तद्यथा-प्रत्येकमात्रवृत्तिघटायेव घटादीनि इतरेतराभावात् , परस्परमस्वभवनपरिग्रहात् कुतः क चासौ स्वभावः ? विज्ञायते, तथा यर्थो गम्यते, अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते, नासौ लोष्टमानीय कृती भवति, तथा प्रकृतेऽपि 20 खशब्दो भावसदृशस्यैव व्यावर्त्तकः स्यात्, नान्यथा, न चास्ति कश्चिद्भावसदृशो यो व्यावत्येतेति भावः । ननु भवनलक्षणस्य भावस्यात्मपर्यायरूपस्य व्यावय॑त्वमिति चेत्तत्राह-भावशब्दार्थेति । तस्य भवतीति भाव इति कर्थविशिष्टभावशब्देनैव व्यावर्तनादित्यर्थः। तथा चाखभवनव्यावर्त्तनं खशब्दस्य नैवास्तीति सर्वे भावाः खेन भावेन भवन्तीति खभावशब्दार्थव्यावर्णने भावशब्दविशेषणत्वेनोक्तोऽपि खशब्दोऽनर्थक इत्याह-भावशब्दस्येति, खशब्दविशिष्टस्य भावशब्दस्य खभाव इत्येवं रूपस्य योऽयं खरूपः अर्थव्यावर्णनं तत्रोक्तो यः खशब्दः खेन भावेन भवन्तीत्येवं रूपे खशब्दः सोऽप्यनर्थक 25 इत्यर्थः प्रतिभाति, एवञ्च खशब्देन यद्यावयं तदपि भवेदेव व्यावय॑त्वादेव, अब्राह्मणवत्, असच न व्यावय॑म् , असतः प्रसक्त्यभावेन व्यावय॑त्वासम्भवात् स्वपुष्पवदित्याह-तस्माद्यदपीति । व्यावयं सदेव भवतीति व्यावय॑त्वहेतुना साधितमपि पुनर्हेत्वन्तरैः साधयति-किञ्चित्वादिति, स्ववदिति, व्यावर्त्तनीयवदित्यर्थः तच यथा व्यावात् पृथग्भूतं किश्चित् वस्तु अर्थः प्रमेयं ज्ञेयं भवत् सद्भवति तथा व्यावर्त्यमपीति भावः, प्रकारान्तरेण खभाववादं निराचष्टे-अयश्चेति, खभावोऽयं यदि वस्तुमात्रव्यापी तर्हि तस्यैकरूपत्वेन विशेषणविशिष्टत्वमयुक्तम् , निरर्थकविशेषणत्वात् , एवञ्च तत्र खशब्द- 30 स्यान्यस्य वा विशेषणत्वेनोपादानं व्यर्थमव्यावर्तकत्वादित्याह-यदि व्यापीति । एतद्दोषपरिहाराय तस्य प्रतिवस्तु परिस. माप्तता यदीष्यते तर्हि लोकवादाभिन्नफलत्वमेवेति पृथक् तस्य कल्पनावैयर्थ्यमित्याह-अथ वस्तुनीति । लोके हि घटस्य घट एव खभावः पटस्य पट एव खभावो नान्यः कश्चिद्धटपटादिव्यतिरिक्तो दृश्यत इत्याह-लोकवादो हीति । अत एव पूर्व स्वभाववादिप्रोक्तदिशा न कश्चिदपर्वः स्वभावः सिद्ध्यति. अपि तु लोकव्यवहारविषय एव सिदित्याह-तस्मान्नैक इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354