Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२८६
द्वादशारनयचक्रम्
[विधिविध्यरे (तस्मादिति) तस्मान्न तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः, अतिभार एष हि शब्दस्य यदेकः स्वशब्दः परभवनव्यावृत्तिस्वभवनप्रतिपादनञ्च युगपत् सकृदुचरितः कुर्यात् , अतो न प्रयो. जक:-न वाचक इत्यर्थः । अर्थो वा स्ववाचकं स्वशब्दं न प्रयोजयति शब्दवृत्तिविरोधात् , तस्मादस्वभवनव्यावर्तनमेवार्थः। एतदपि वा-अस्वभवनव्यावर्त्तनं स्वशब्दस्य नैवास्ति, किन्त्वर्थागतेरभ्यु। पेत्यैतद्विचारितम् । किमर्थं नास्तीति चेत् ? उच्यते-अस्वस्याभूतत्वात् , भावस्यैव भूतत्वादित्यर्थः, स्वशब्दार्थाभावान्न स्वशब्दं प्रयोजयति, वन्ध्यापुत्रवत्, तदभावाद्भावशब्दव्यतिरिकार्थविषयाभिमतः स्वशब्दोऽपि नास्तीत्यत आह-न चाभूतो व्यावर्त्तनाय, प्रभवतीति वाक्यशेषः, अभूतत्वाद्वन्ध्यासुतवत् । अथ सोऽर्थोऽस्वः तथा-भूत एव, ततः स भाव एव, भावादेव तस्य-स्वशब्दवाच्यार्थस्य भावशब्दवाच्यार्थवत् किं व्यावृत्त्याऽनर्थिकयेति स्वशब्दस्य व्यावाभावाद्यावृत्तिरनार्थका, व्याव10 ार्थाभावश्च तस्य भावत्वादित्युक्तम् ।
स्यान्मतं तस्याभावाव्यावर्त्यता विशेषणार्थवत्ता चेत्येतच्चायुक्तम् , तस्य भावत्वप्रसङ्गात्, न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य व्यावत्येता वाऽस्ति, अब्राह्मणवचनेन ब्राह्मणत्ववत् , तस्माद्यदपि व्यावर्त्यते तदपि भवेदेव, व्यावर्त्यत्वादब्राह्मणवत् । वैधम्र्येण असत्,
असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावर्त्यत्वात्, खपुष्पवत् , किञ्चित्वाद्वस्तुत्वादर्थत्वादेः, 16 स्ववत् ।
(स्यान्मतमिति) स्यान्मतं तस्य व्यावय॑स्याभावाव्यावर्त्यता विशेषणार्थवत्ता चेत्येतचायुक्तम् , तस्य भावत्वप्रसङ्गात् , न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य व्यावय॑ता वाऽस्ति, अब्राह्मणवचनेन ब्राह्मणत्ववत् , न ह्यब्राह्मणवचनेन ब्राह्मणोऽप्रसक्तो व्यावय॑ते, यथोक्तम् 'नबिवयुक्तमन्यसदृशाधि
कत्वशक्तेः परिपूर्णतया न स्वभवनस्यापि वाचकत्वमिति भावः। न वाऽर्थः स्ववाचकत्वेन स्वशब्द प्रयोजयतीत्याशङ्कते अर्थों 20 वेति । न तावदर्थस्य तथाविधा शक्तिरस्ति, क्वाप्यदर्शनात्, सत्त्वेऽपि शब्दस्य तथाविधिशक्त्यभावे अर्थबलेन वाचकत्वस्य
शब्दशक्तिविरोधित्वात् , अशक्तस्यापि वाचकत्वेऽतिप्रसङ्गादिति भावः। उपक्षीणशक्तिकत्वं वर्णयति-अतिभार इति, सकृदुच्च रितस्य शब्दस्य सकृदेकार्थोपस्थापकत्वेन खाभवनव्यावृत्तिस्त्रभवनयोरर्थयोरेकदोपस्थापकत्वमत्यन्तभारभूतं न सम्भवतीति भावः। खभवनव्यावृत्तिरूपमर्थ खशब्दस्याभ्युपगम्य दोषमुदीर्य सोऽप्यर्थोऽस्य न सम्भवतीत्याचष्टे-एतदपि वेति । अखस्येति,
खभिन्नस्य भावभिन्नस्येत्यर्थः, अभूतत्वात्-भवनरूपत्वानुपपत्तेः, भावस्यैव भवनरूपत्वात् , अतोऽस्वस्यैवाप्रसिद्धेः कथमख 26 व्यावृत्तिः स्यात् , अतः खशब्दार्थतयाऽभिमतस्यैवाभावेन कस्य वाचकः स्वशब्दः? को वा अर्थः स्वशब्दं प्रयोजयतीति
भावः। अर्थस्यैवाभावेन भावव्यतिरिक्तार्थवाचकत्वेनाभिमतः खशब्दोऽपि नास्त्येवेत्याह-तदभावादिति । अविद्यमानः शब्दो न च व्यावर्त्तनाय प्रभवति, अभूतत्वाद्वन्ध्यासुतवदित्यर्थः । ननु सोऽर्थोऽस्खलक्षणो भवनधर्मैव, तव्यावृत्तिफलकः खश. ब्दोऽस्त्येवेत्युच्यते तर्हि अस्वस्य भावत्वादेव तद्व्यावृत्तिवाचकः स्वशब्दो व्यर्थः, व्यावाभावात् , भावलक्षणस्यास्वस्य भा
शेषणेन खशब्देन व्यावर्तयितुमशक्यत्वात् , न हि यद् यद्विशेषणं तत्तद्विरुद्धमभिधातुमीष्टे इत्याशयेनाह-अथ सोऽर्थः 10 इति । ननु भावस्याभावाव्यावर्तनाय खशब्दोपादानमत एव तस्य व्यावृर्त्यता स्वशब्दस्य विशेषणस्य चार्थवत्तेत्याशङ्कते
स्यान्मतमिति, तस्य-अखभूतस्याभावस्य । यद्यभावस्य व्यावय॑त्वमुच्यते तर्हि तस्य भावत्वं स्वीकार्य भवेत् , प्रसक्तस्यैव व्यावर्तयितव्यत्वात् ,न ह्यसतः प्रसझोऽस्ति येन तद्यावर्तनाद्विशेषणं सार्थकं भवेदित्युत्तरयति-तस्य भावत्वप्रसङ्गादिति । दृष्टान्तमाख्याति-अब्राह्मणेति, तत्र मानमादर्शयति-यथोक्तमिति-महाभाष्ये ३.१।१२ सूत्रे उक्तत्वादित्यर्थः, तथा हि नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः, नयुक्तमिवयुक्तं वा यत्किञ्चिदिह दृश्यते ततोऽन्यस्मिंस्तत्सदृशे कार्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354