Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 344
________________ २९४ द्वादशारनयचक्रम् [विधिविध्यरे स्यात् , देशकालाद्यभेदे वा भेदकल्पना स्यात् , उभयथाप्यसद्रूपत्वं कल्पनायाः, इह तु देशकालाभ्यामभेदो नास्ति, घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्च भेदात् , कालतश्च क्षणे क्षणेऽन्यत्वात् , तस्मादनभिलाप्य. परमार्थस्य च वस्तुनो घट इति रूपादिरिति ग्रहणमसदध्यारोपात्मकम् , देशकालाभेदा5 भावात् , खपुष्पवत् । (तब्रहणमपीति) तद्ब्रहणमपि नैव भेदस्याभावादेव खपुष्पग्रहणवत्, अभावः कल्पना. त्मकत्वात् , तस्य भावैक्यस्य साधितत्वाद्भेदः कल्पनात्मकः, कल्पनात्मकश्चासन् , वस्तुनोऽन्यथात्वात् , सा च कल्पना देशतः कालतो वा स्वरूपत एव वा भिन्नेष्वर्थेष्वभेदकल्पनाद्वा स्यात् देशकालाद्यभेदे वा भेदकल्पना स्यात् उभयथाऽप्यसद्रूपत्वं कल्पनायाः । इह तु त्वन्मतेन देशका10 लाभ्यामभेदी नास्ति भेद एव, घटादेः कपालादित्वेन भिद्यमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशश्च भेदादभेदाभावः, कालतश्च क्षणे क्षणेऽन्यत्वात् , तस्मादनभिलाप्यपरमार्थस्य च वस्तुनो घट इति रूपादिरिति वा ग्रहणमसध्यारोपात्मकं देशकालाभेदाभावात् खपुष्पवत्, खपुष्पे इव खपुष्पवत् , तत् प्रत्यक्षाभासमेवेत्यर्थः । __ यदप्युच्यते अभेदश्च न गृह्यते प्रत्यक्षत इति तदपि न यस्मात्15 अभेद एव तु गृह्यते प्रत्यक्षतः भावस्याभिन्नत्वाद्गृह्यमाणस्य च भावत्वात् । (अभेद इति) अभेद एव तु गृह्यते प्रत्यक्षतः, किं कारणं ? भावस्याभिन्नत्वात्, गृह्य. माणस्य च भावत्वात् , नाभावो गृह्यते, यथा खपुष्पादि । यदि ब्रूयास्त्वम् अथ समस्त एव कस्माद्भावो न गृह्यते ? अत्र तु समस्तग्रहणं वक्ष्यामः, त्वां तु किश्चित् 20 पृच्छामः पश्यता त्वया घटं किं. समस्त. एव घटो न गृह्यते ? परान्तरादिभागाः किं न प्रत्यक्षाः? आरादागा एव किं प्रत्यक्षाः? इति, किञ्च समानदोषत्वादचोद्यमेतत्-भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति विशेष पश्यत एव युज्येत वक्तुमित्थं भवति तथा न भवतीति, न तु सर्वत्रैवादशेनभाक् पक्षो यस्य तस्य । कत्वाद्भेदो न वास्तविकः, किन्त्वन्यथा विद्यमानस्यान्यथा प्रतिभासनाद्भेदबुद्धिः कल्पनात्मिकैवेत्याह-तस्य भावैक्य25 स्येति, देशतः कालतः स्वरूपतो वा भिन्नेष्वर्थेषु अभेदस्य देशादितोऽभिन्नेषु भेदस्य वा कल्पना भवेत् , उभयथापीयमसद्रूपैवेत्याह-सा चेति । उभयविधकल्पनामध्ये भवन्मते देशकालादितोऽभेदो नास्त्येव, भेदस्यैवाङ्गीकारात्, देशादितश्च भिद्यमानं वस्तु यावत् परमाणु शो रूपादिशोऽनभिलाप्यत्वशश्च भिद्यते, एवञ्चानभिलाप्यस्य प्रत्यक्षाविषयस्य भेदस्य घटोऽयमिति रूपमिदमिति चाभिलाप्यतया प्रत्यक्षाभ्युपगमात् तदसत्, अध्यारोपात्मकमेव, अभेदाभावादित्याह पति । तथा च भेदप्रत्यक्षं प्रत्यक्षाभास एवेति भावः। तदेवं भेदः प्रत्यक्षेण गृह्यत इति निराकृत्याभेदो न 30 प्रत्यक्ष इत्येतत्पदं निराकरोति-अभेद एव त्विति भावो हि गृह्यते, स चाभिन्नात्मा, अतोऽभेद एव प्रत्यक्षविषय इत्यर्थः । ननु यदि भेदो न गृह्यते, गृह्यमाणश्चाभेदरूपो भाव एव, तर्हि पूर्णतया भावस्य ग्रहणं स्यात्ततश्च सर्वे सर्वज्ञा एव भवेयुः, सर्वग्रहणादित्याशङ्कते यदि ब्रूया इति, अस्योत्तरमने प्रश्नानन्तरमेव वदाम इत्याह अत्र त्विति । प्रथमं तव दुराग्रहव्यपनोदनाय त्वां किञ्चित् पृच्छामः येनानेकप्रकारेण पराजितस्त्वं निरुत्तरीभूय Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354