Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 353
________________ वाक्यार्थ विचारः ] न्यायागमानुसारिणीव्याख्यासमेतम् रोधः, अभिनैकभवनब्रह्मोपलक्षणार्थत्वे सर्वशब्दानां शब्दलक्षणविन्मतिसंवादिज्ञापकमाह-एवञ्च कृत्वाऽऽहुः, शब्दलक्षणविद इति वाक्यशेषः । सर्वधातवो भुवोऽर्थमभिदधतीति तेषामप्यस्मिन्नेव दर्शने करोत्यादिधातूनां सत्तार्थानतिक्रमेण स्वार्थप्रदभवनमुपपाद्य भुवं वदन्तीति भूवादयो वादिशब्दस्यौणादिकेबन्तत्वात्तथा भूवादिशब्दव्याख्यानान्नान्यथेति, उक्तः पदार्थः । satti वाक्यार्थ उच्यते- Jain Education International 2010_04 ३०३ एकोऽनवयवः शब्दो वाक्यार्थः, भवनस्यानवयवत्वात्, एष द्रव्यार्थो विधि विधिनयः, सङ्ग्रहदेशत्वाच्चास्य द्रव्यार्थता, इह तु द्रवति भवतीति द्रव्यं भवनं भावः, निबन्धनमस्य सोमिलब्राह्मणप्रश्ने 'किं भवं ? एक्के भवमित्यादिके व्याकरणे 'सोमिला ! एगे वि अहं दुवे वि अहं, अक्खए वि अहं अव्वए वि अहं, अवट्ठिए वि अहं, अणेगभूयभावभविए वि अहं” ( भग० श० १८ उ० १० सू० ६४७ ) इत्यादि ॥ ( एक इति ) स एकोऽनवयवः शब्दो वाक्यार्थः, वाक्यवार्थश्च वाक्यार्थः वाक्येन युक्तोऽर्थो वाक्यार्थः, वाक्यसम्बन्धाद्वाक्याद्वाक्यस्यैवार्थः । यथाहुः -- आख्यातशब्दः संघातो जातिः संघातवर्त्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहतिः ॥ पदमाद्यं पृथक् सर्वं पदं साकाङ्क्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् || ( वाक्यपदीये का० २ श्लो० १-२ ) तत्र यैरेकोऽनवयवः शब्द इत्युक्तं तैर्विनिश्चित्योक्तं भवनस्यानवयवत्वात्तथैव पदवाक्यशब्दस्तदर्थाद्यात्मत्वादिति, न तु 15 अस्मिन्नर्थे शाब्दिकानां सम्मतिमाह एवञ्चेति, का सा सम्मतिरित्यत्राह - सर्वधातव इति भ्वादयः सर्वे धातवो भुवोऽर्थं भावं वदन्ति, अतः भाववचनो धातुः, न तु क्रियांवचनः, पचादीनां सामान्यविशेषभावेन करोतिना किं करोति ? पचति, पाकं करोतीत्येवं सामानाधिकरण्येऽपि अस्ति भवति विद्यतीनां करोतिना सामानाधिकरण्याभावाद्धातुत्वानापत्तेः, नहि भवति 'किं करोति ? अस्ति' इति । एवञ्च भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति साध्यसाधनभावेन भवति नैकाधिकरणवृत्तित्वलक्षणसामानाधिकरण्याद्भाववचनस्यैव धातुत्वम् भवतीति भावः पचादयश्च क्रियाः भवतिक्रियायाः कर्यो भवन्तीति 20 भावा उच्यन्ते आत्मभरणवचनो भवतिः, आत्मभरणञ्च सत्ताजन्मवृद्धिपरिणामापक्षयनाशरूपषड्भावविकारेषु नाशाख्यं षष्ठं भावविकारं मर्यादी कृत्य पञ्चस्खनुस्यूतं सदिति प्रत्ययवेद्यं रूपम् । न च वृक्षः लक्ष इत्यादिप्रातिपदिकानामपि भाववचनत्वाद्धातुत्वं प्राप्तमिति वाच्यम्. कर्मसाधनभावशब्दाङ्गीकारात् भाव्यते यः स भावः क्रिया हि भाव्यते, स्वभावसिद्धन्तु द्रव्यम् । न च माता भ्रातेत्यादिसम्बन्धिशब्दानामपि धातुत्वप्रसङ्गो मातृत्वं हि पुत्रजन्मना भाव्यते इति वाच्यम् भाववचना ये भूवादयः ते धातव इत्यङ्गीकारात्, एतेनैवाभिहितं सूत्रेण भूवादयो धातवः ( पा. १-३- १ ) इति भवतीति भूः भुवं 25 वदन्तीति भूवादयः वदेरयमौणादिक इञ्कर्तृसाधनः । जायमानमर्थं येऽभिदधति ते धातवः तेन सिद्धार्थाभिधायिनां न धातुसंज्ञा, अथवा भावस्य सत्ताया एवास्तिभवतीत्यादिषट्काराः, ब्रह्मसत्तैवानेकक्रियाविवर्त्तात्मिका कारकैः सम्बन्धादवसी - यमानसाध्यस्वरूपा जन्मादिरूपतया भासत इति । अथ वाक्यस्यार्थप्रकाशनायाह - एकोऽनवयव इति, वाक्यार्थोऽयं स्फोटवादिनां मतेन येनोश्चारितेन सास्नालाङ्गूलखर ककुद विषाण्यर्थरूपं प्रतिपद्यते स शब्दः स्फोटः ध्वनिः शब्दगुण इति, स्फोटो द्विविधः बाह्यः, आभ्यन्तरश्चेति, बाह्योऽपि जातिव्यक्तिभेदेन द्विविधः, तत्र जातिलक्षणस्य जातिः संघातवर्त्तिनीति व्यक्तिक्षणस्यैकोऽनवयवः शब्द इति, आभ्यन्तरस्य तु बुद्ध्यनुसंहति रित्यनेनोद्देशः । तत्र बहीरूप आन्तरो वा निर्विभागः शब्दार्थमयो बोधस्वभावः शब्दः, स्फोटलक्षणमेव वाक्यम्, यथा चित्रज्ञानं सर्वाकारमेकमेव, प्रविभागस्त्वस्य दृश्यभेदसमाश्रयेण क्रियते नीलपीताद्यनेकाकारमेव विज्ञानमुपजातमिति, वस्तुस्थित्या तत्र ज्ञाने आकारमेदो नास्ति तथा वाक्यवाक्यार्थयोः स्वरूपम् । वाक्यवाक्यार्थयोरखण्डत्वं च पानकरसमयूराण्ड कर सचित्ररूपनर सिंहगवयचित्रज्ञानवत् यथा वाक्यं निर्विभागं स्फोटलक्षणं वाचकं तथा वाक्यार्थोऽपि, अत उक्तं वाक्यञ्चार्थश्च वाक्यार्थ इति, उभयोरखण्डत्वादिति भावः । देवदत्त ! 35 गामभ्याजेत्यादौ वाक्ये देवदत्तादिपदानां पृथगर्थाभावात् । अत एवोक्तं - भवनस्यानवयवत्वादिति, स्फोटलक्षणस्य निरं 30 For Private & Personal Use Only 5 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354