Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 346
________________ द्वादशारनयचक्रम् [विधिविध्यरे यान्तरेण हेत्वन्तरं वा घटोऽपि भाव एव चाभिन्नत्वात् , यो यो भावः स स तद्ब्रहणेन गृह्यते, दृष्टान्तो देशस्वात्मवत्-तस्य देशस्य स्वात्मा-देशस्य भावः स्वं तत्त्वं भावादभिन्नत्वात् तद्भावत्वाद्गृह्यते भाववत्, तथा देशग्रहणे समस्तो भावः तद्भावत्वाद्गृह्यते, एतद्भावनार्थमाह-तस्य ोकोऽपि प्रथनं प्रति देशः, हि शब्दो यस्मादर्थे, यस्मात्तस्यैकोऽपि देशः प्रख्यान् सर्वाविभक्तभवनवृत्त्यात्मकत्वात्-सर्वेण समस्तेन भावेन अविभक्तां भवनमित्येवैकां वृत्तिमनुभवत्यात्मरूपामिति सोऽपि देश: सर्वभावात्मा, प्रागुक्तपाण्याद्यवयवपुरुषात्मत्ववत्, अत आह-तस्य ह्येकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूपमनतिक्रान्तः, ततोऽनेन न्यायेन देशग्रहणे समस्तग्रहणमित्यभेदपक्ष एव दर्शनं नान्यत्रेति । नन्वेकदेशश्च स एव चेति विप्रतिषिद्धमिति चेन्न ज्ञायमानत्वापेक्षयोक्तत्वात् त्वन्मत्या सावयवदर्शनं नान्यस्येति, नन्वेकदेशः सावयव इव निरवयवोऽपि प्रख्यातीति मया 10 तथोक्तम् , परमार्थतस्तु निविभाग एवासावुक्तो वक्ष्यते च । अथवा प्रथनं विस्तारो विस्तीर्णत्वात्तस्य भावस्य, प्रथनं देशं प्रतीत्य देशः, तस्माचाविभक्त इत्युक्तम् । अत आह___ न चास्योद्धोधस्तिर्यग्दिक्षु मूर्तिविवर्त्तप्रत्यङ्गानामेकत्वाभिमतभेदवदेकत्वात् क्वचिदवच्छेदो विद्यते दक्षिणोत्तरयोरपि किमु घटपटयोर्भवनैकमूर्तिविवर्तानवच्छेदात् इति स भावो 15 ध्रुवः कूटस्थोऽविचाली अनपायोपजनोऽविकार्यनुत्पत्तिरवृद्धिरव्ययः । एतानि हि नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम् , उक्तवत् । (न चेति) यथैकत्वाभिमतस्य भेदस्य-घटादेर्मूर्तेः-शरीरस्य विवर्तानां-विभागानामृर्वाधस्तिर्यग्दिक्तयाऽङ्गावयवतया न परम्, किन्तु प्रत्यङ्गतया च पुरुषपाण्यादिवत् कपालादित्वेनावभास मानानामेकान्ताभेदः, चक्षुरादिग्राह्याभिमतः एकत्वानिर्विभागस्तथा भावविवर्त्तप्रत्यङ्गानां तदेकरवा20 निर्विभागः, तस्माद्भावस्य न कचित्तदभिमतभेदवदेकत्वादवच्छेदो विद्यते यथा वा घटादित्वेन यथा यो य इति । यत्र यत्र तद्भावत्वं तत्र तत्र तद्ग्रहणेन गृह्यमाणत्वमिति भावः । देशवात्मवदिति, देशः एकदेशः तस्य खात्मा-भावः खतत्त्वभूतः स च यथा ततोऽभिन्नत्वात्तद्भावत्वादेशग्रहणे समस्तो भावो गृह्यते तद्वदित्यर्थः, यथा घटादेः पुरोभागे गृहीते पूर्णो घटो गृह्यत एव तथेति भावः । अमुमर्थमेव भावयति-तस्य हीति, भावस्य हि घटादिलक्षण एकोऽपि देशः प्रथमानः समस्तभावेनापृथग्भूतो भवनलक्षणैकात्मकतया सार्वरूप्यं नातिकामतीति अभेद 28 एवं गृह्यते प्रत्यक्षत इति भावः । ननु घट एकदेशश्चेत् कथं स एव. स एव चेत्कथमेकदेशः विरुद्धत्वात्तयोरित्याशङ्कते नन्विति । ज्ञानविषयत्वाभिप्रायेणैवमुक्तमित्युत्तरयति-ज्ञायमानेति । यथा त्वया सावयवो दृश्यत इत्युच्यते तथैव मयापि निरवयवोऽपि दृश्यत इत्युच्यत इति ज्ञानविषयत्वापेक्षया स चैकदेशश्चेत्युक्तम्, वस्तुतस्तु सावयवदर्शन नास्त्यैव, निर्विभागस्योकत्वाद्वक्ष्यमाणत्वाच्चेल्याह-नन्वेकदेश इति। प्रथनशब्दस्य व्यापकत्वार्थकतामभ्युपेत्यापि विभा गाभाव उक्त इत्याह-अथ वेति । भावस्य सर्वदिगवच्छेदेनापि विभागो नास्तीत्याह-न चास्येति. यथा पुरुषकरादे30 रवयवतया भासमानाकुल्याद्यपेक्षया भेदो नास्ति यथा वा घटादेरेकत्वेनेष्टस्य पृथुबुनग्रीवाद्यपेक्षया न भेदः तथा भावस्याप्येकदेशतयाऽभिमतघटाद्यपेक्षया ऊधिोभागाद्यवच्छेदेन वा नास्ति विभाग इत्याशयं स्फुटयति-यथैकत्वाभिमतस्येति । भङ्गावयवतयेति परं केवलमशात्मकावयवतयैवाभेदो न किन्तु प्रत्यङ्गतयापीति भावो गम्यते । यथा घटादित्वेनेति, यथा घटादित्वेन घटादेः रूपादित्वेन वा घटरूपादेरेकत्वाद्विभागो नास्तीति भावः । अत Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354