Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 349
________________ अमलं मलं भाति] न्यायागमानुसारिणीव्याख्यासमेतम् २९९ समानानेकधर्मत्वादीनि विशेषणानि स्युर्नान्यथा स्थाणुपुरुषादिष्विति संशयनीयार्थाभावान्न संशयः, तत एव विपर्ययितव्याभावान्न विपर्ययस्त्वन्मतेनैवेत्यत आह-संशयनीयविपर्ययितव्यविषयप्रत्यक्षात्यन्ताभावात् । अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोऽवसायोऽध्यवसायः प्रत्यक्षज्ञानं, एतदभावस्योक्तत्वात्, नाध्यवसायोऽनध्यवसाय इत्यधिकावसायासम्भवाश्च तद्व्यावृत्तिविषयाध्यवसायासम्भवात् कुतोऽनध्यवसायः ? । तस्मात् यदुक्तं 'पुढवीकायिकादिजीवा अच्चामूढत्तमविपचिटुंति' इत्यादि तत्सत्यम् । । __ अन्वाह च यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्त्तते ॥ अन्वाह चेति, तस्मिन् जिनप्रवचनप्रसिद्धाभेदभावनिर्विकल्पविधिविधिनयदर्शने भेदाभावं प्रत्यक्षानुमानसंशयविपर्ययानध्यवसायासम्भवमनुवर्तमानोऽन्योऽप्याह-यथा विशुद्धमाकाशमिति दृष्टान्तसमर्थनं तिमिरोपप्लुतदृष्टेविशुद्धे नभसि केशोण्डुकमशकमक्षिकामयूरचन्द्रिकाऽदिमात्राभिरवयवैर्वि- 10 ततमिति निरवयवेऽप्यसङ्कीर्णे सङ्कीर्णदर्शनं भवति तथेदमिति दान्तिको भावैकपरमार्थः, अमरणादमृतमविनाशात, बृहत्त्वाद्ब्रह्म निर्विकारं निस्तिमिरं व्योमवदवस्थितम् , नपुंसकनिर्देशः सर्वभेदाभिमतासद्विकारसाधारणत्वात् , अव्यक्त गुणसन्देहे नपुंसकलिङ्गप्रयोगवचनात् , भवनापेक्षया वा नपुंसकम् । अकलुषमपि सदविद्यया ज्ञानाभासेन कलुषत्वमिवापन्नमनापन्नमप्यभेदरूपमपि सद्भेदरूपमाभाति । एवं तावदमलं मलरूपेणाभातीत्युक्तम् ।। 18 इदानीमेकं सदनेकधा प्रविभज्यत इति ब्रूमःतस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ।। संशयविशेष्ये पुरोवर्तिवस्तुनि स्थाणुपुरुषसाधारणधर्मस्योर्द्धत्वादेः प्रत्यक्षात् स्थाणुत्वपुरुषत्वलक्षणविशेषधर्माप्रत्यक्षात तयोधर्मयोः स्मरणाचायं स्थाणुर्वा पुरुषो वेति संशयो भवतीति तदर्थः, अत्रेकविध एव संशय उक्तः । न्यायमते तु पञ्चविधः संशय उक्तः, तमेव गौतमसूत्रोपन्यासेन दर्शयति-समानानेकेति, साधारणधर्मविशिष्टधर्मिज्ञानजन्यं, असाधारणधर्म-20 विशिष्टधर्मिज्ञानजन्यं विरुद्धार्थप्रतिपादकवाक्यजन्यं, उपलब्धेरव्यवस्थाजन्यं, अनुपलब्धेरव्यवस्थाजन्यच्च सत्यां विशेषधर्मप्रकारकज्ञानेच्छायां धर्मिण्येकत्र नानाविरुद्धधर्मज्ञानं संशय इति यथाश्रुतार्थः । तत्र संशयस्य प्रत्यक्षज्ञानपूर्वकत्वं दर्शयति सामान्यविशेषयोरिति, तज्ज्ञानमनध्यवसायरूपमपि न सम्भवतीत्याह-अनध्यवसाय इति, अध्यवसायपूर्वभावी अनध्यवसाय इत्यर्थः । स चाधिकोऽवसाय इति, अध्यवसायश्चाधिकावसायरूपः विशेषधर्मप्रकारकज्ञानरूपः स्पष्ट ज्ञानरूपः प्रत्यक्षज्ञानमिति यावत्, त्वन्मतेनैतदभावस्योकत्वात् कुतस्तत्पूर्वभाव्यनध्यवसायसम्भवः, अध्यवसायस्यैवाप्र-25 सिद्धेरिति भावः । अमुमेव भावमाचष्टे-अधिकावसायासम्भवाश्चेति, अनध्यवसायशब्दघटकेन नया हि अध्यवसायो व्यावर्तनीयः, तस्यैवाभावे कथमनध्यवसायसम्भव इति भावः। अत एव पृथिवीकायिकादिजीवानां भेदशून्यनिर्विकल्पज्ञानवत्त्वमागमे प्रोकं युक्तमेवेत्याह-तस्माद्यदुक्तमिति । तस्मिन् जिनप्रवचनेति, अर्हच्छासने प्रसिद्धो योऽमेदरूपो भावो निर्विकल्पः, तमेवाभ्युपगन्तृविधिविधिनये मेदो नास्ति प्रत्यक्षं अनुमानं वा नास्ति तथा संशयो विपर्ययोऽनध्यवसायो वा न सम्भवतीति मन्वानोऽपरोऽप्याहेत्यर्थः । गगनं निरवयवमसङ्कीर्णश्च तत्र यथा कलुषितनेत्रस्य केशोण्ड-30 कादिरूपेण सङ्कीर्णतया तस्य भानं भवति तथैवाभिन्नो भावो निरवयवो निर्विकारश्च, ज्ञानाभासेन च तत्र मेदरूपमा- . भासत इत्याशयेनाह-यथा विशुद्धमिति । उदाहरणमिदं निर्मलं मलरूपेण भासत इत्यर्थे विज्ञेयम्, अमेदरूपमपि सद्भेदरूपमाभातीत्येकरूपस्यानेकधा प्रविभागे दृष्टान्तं प्रदर्शयन्नाह-तस्यैकमपीति महाकालमते ह्युक्तं 'ऊष्मा सहस्रसंख्ये Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354