Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 348
________________ द्वादशारनयचक्रम् .. [विधिविध्यरे. तत् यथा धूमदर्शनादग्निरिति ज्ञानम् , तथाऽऽत्मेन्द्रियमनोऽर्थसन्निकर्षजपूर्वकं त्रिविधं पूर्ववदित्यादिलक्षणमेव तत्र संभवति, देशग्रहणस्याऽऽराद्भागविषयस्याशेषतद्वस्त्वसंस्पर्शादेकदेशग्रहणेन शेषग्रहणमनुमानमेव । तस्यानुमानत्वेऽपि मा स्थिरां बुद्धिं कार्षीरित्यत आह। कुतोऽनुमानताऽपि ? प्रत्यक्षत्वासिद्धेः, सम्बद्धयोः कदाचिदप्यग्रहणात्, प्रत्यक्षपूर्वत्वे तत्सम्भवात्, तदभावे तदसिद्धेः। (कुत इति) कुतोऽनुमानताऽपि ? प्रोक्तन्यायेन प्रत्यक्षत्वासिद्धेः, कथमिति चेत् ? सम्बद्धयोः कदाचिदप्यग्रहणात्, प्रत्यक्षकाले हि सम्बद्धयोर्युगपद्हणादुत्तरकालमेकदेशग्रहणाद्विशेषणादवगम्यमानमनुमानं स्यात् , तदेव तु प्रत्यक्षदर्शनं नास्तीत्युक्तम् , प्रत्यक्षपूर्वत्वे तत्सम्भवात् प्रत्यक्षसिद्धौ तद्वले10 नानुमानसिद्धिः सम्भाव्यते, तदभावे तदसिद्धेः, प्रत्यक्षत्वासिद्धेरनन्तरोक्तत्वादेव फुतोऽनुमानताऽपि ? । इतरो निराशीभूत आह तत् किमज्ञानमेवापद्यते ?, कुतोऽज्ञानमपि तत्प्रत्यक्षम् ?, प्रत्यक्षपूर्वकाज्ञानत्रयेऽनन्त - वात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पाः प्रत्यक्षपूर्वकाः तत्र संशयनीयविपर्ययितव्यविषयप्रत्यक्षात्यन्ताभावात् कुतः संशयविपर्ययौ, अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोs16 वसायोऽध्यवसायस्तव्यावृत्तिविषयाध्यवसायासम्भवात् कुतोऽनध्यवसायः । (तत्किमिति) तत्किमज्ञानमेवापद्यते ? आचार्य आह-कुतोऽज्ञानमपीति, न भवति त्वदभिमतं तत् प्रत्यक्षम् , कुतः ? प्रत्यक्षपूर्वकाज्ञानत्रयेऽनन्तर्भावात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पास्ते च प्रत्यक्षज्ञानपूर्वकाः, संशयस्तावत् 'सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः' (वै. अ. २ आ. २ सू. १७) तथा 'समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशे20 षापेक्षो विमर्शः संशयः' (गौ० अ० १ आ० २३ सू.) इति, सामान्य विशेषयोः प्रत्यक्षपूर्वकत्वे प्रत्यक्षात् ततोऽपरस्याप्रत्यक्षस्यार्थस्य या सिद्धिस्तदनुमानमित्यर्थः । तथाऽऽत्मेन्द्रियेति, अत्र 'अथ तत्पूर्वकं त्रिविधमनुमान पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च' (गौ० अ० १ आ. १ सू० ५) इति, अत्र तत्पूर्वकमित्यनेन लिङ्गलिगिनोः सम्बन्धदर्शनं लिङ्गदर्शनच्चाभिसम्बध्यते लिङ्गलिङ्गिनोः सम्बद्धयोर्दर्शनेन लिङ्गस्मृतिरभिसम्बध्यते, स्मृत्या लिङ्गदर्श. नेन चाप्रत्यक्षोऽर्थोऽनुमीयत इति तदनुमानं त्रिविधम् , तत्र पूर्ववत् यत्र-कारणेन कार्यमनुमीयते यथा-मेघोन्नत्त्या 25 भविष्यति वृष्टिरिति । शेषवत्तत् यत्र कार्येण कारणमनुमीयते यथा पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्टा स्रोतसोऽनुमीयते भूता वृष्टिरिति । सामान्यतो दृष्ट-व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शन मिति. यथा चादित्यस्य तस्मादस्त्यप्रत्यक्षाऽप्यादित्यस्य व्रज्येति (वात्स्यायनभाष्यम् ) ईदृशमनुमानलक्षणमेव भेदपक्षे प्रत्यक्षाभिमतस्य सम्भवति । तत्र हेतुमाह-देशग्रहणस्येति, इन्द्रियेण हि घटादेः पुरोवर्तिदेश एव गृह्यते, इति न प्रत्यक्षमशेष घटवस्तु स्पृश तीत्यर्थः । प्रत्यक्षस्यैव भेदपक्षेऽसम्भवात्तद्बलेन प्रभविष्णोरनुमानस्यापि न सम्भव इत्याशयेन कथयति-कुतोऽनु. 30 मानतापीति । हेतुमाह-प्रत्यक्षत्वासिद्धेरिति, तत्रापि हेतुमाह-सम्बद्धयोरिति, अविनाभावसम्बन्धेन सम्बद्धयोाप्यव्यापकयोरित्यर्थः, कदाचिदपि-अविनाभावग्रहणकाले, अनुमेयकाले वेत्यर्थः। कदाचित् पदं व्याख्यातिप्रत्यक्षकाले हीति, महानसादावविनाभावप्रत्यक्षकाले हि युगपद्वह्निधूमयोयुगपद्धहणात्ततश्च पर्वतादौ व्याप्यधूमादेर्दर्शनेनैकसम्बन्धिज्ञानादपरसम्बन्धिनोऽनुमानात्मकं ज्ञानं जायते, तच भेदपक्षे प्रत्यक्षस्यैवासम्भवेन कथं तज्ज्ञानमनुमानं स्यादिति भावः । अथ भेदवादी प्रत्यक्षेऽपि निराशीभूय किमस्माकं जायमानं प्रत्यक्षमज्ञानमेवेति पृच्छति-तत् किमिति, तत् प्रत्यक्षमित्यर्थः । तत्र संशयलक्षणं वैशेषिकसूत्रोदितमुपन्यस्यति-सामान्यप्रत्यक्षादिति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354