Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
faceपाद्यसम्भवः ]
न्यायागमानुसारिणी व्याख्यासमेतम्
इदानीं भेदकारण दिशमुद्राह्य दूषयिष्यन्नाह -
विकल्पो हि भेदसंसर्गपरिणामैर्भवेत्, न चास्य भेदः संसर्गः विपरिणामो वा एकत'वात्मकत्वात् प्रतिस्वत्ववत् ।
1
विकल्पो हीत्यादि, विकल्पो न सत्यः, स तु भवन्ने भिस्त्रिभिः कारणैर्भवेत् भेदसंसर्गपरिणामैः, तत्र भेदेन - घटाद्भिद्यमानात् कपालानि परस्परतो भिन्नानीति गृह्यन्ते । संसर्गेण - तन्तूनां संघातेन पट- 5 स्तन्तुभ्योऽन्य उत्पन्न इति । परिणामेन -क्षीरं दधित्वेन परिणतं दधि क्षीरादन्यत्, एतेषाञ्चान्यतोक्तिः प्रयोजनादिनानात्वाल्लोके प्रसिद्धेति । एता भेदवाद्युपपत्ततो भवेयुः, तत्र न चास्य भेदो न संसर्गो न विपरिणाम इत्येतास्तिस्रः प्रतिज्ञा एकहेतुसाध्याः, कोऽसौ हेतुः ? उच्यते - एकतत्त्वात्मकत्वात् तस्य भावस्तत्वमेकं तत्त्वमनन्यत् स एवाऽऽत्मा स्वभाव इत्येकतत्त्वात्मा तद्भावादेकतत्त्वात्मकत्वात्, प्रतिस्वत्ववत् यथा स्वं स्वं प्रति प्रतिस्वम् त्वन्मतेन भिन्नानामसाधारणः स्वात्मा यः स तु भाव 10 इत्येवैतत्वात्मकत्वान्न भेदसंसर्गपरिणामात्मकः तथा भावोऽपीति नास्ति विकल्पो भावस्य । अथापि स्याद्विकल्पः सोऽस्मन्मतेनैव न भेदाभ्युपगमेनेत्याह
"
विकल्प्येत च भाव एव नाभावः खपुष्पादिरसत्त्वादिति भावस्यैव घटपटादिना भवनं नास्य भेदः कश्चित् तस्यापि तत्त्वादेव कुतोऽत्र विकल्पः ।
"
२९१
"
( विकल्पयेत चेति) विकल्प्येत च भाव एव नाभावः खपुष्पादिरसत्त्वादिति भावस्यै - 15 वास, भाव एकनित्य सर्वगतत्वादिधर्मा तस्यैव घटपटादिना भवनं नास्य भेदः कश्चित् भेदश्चाभवनात्मकत्वादित्युक्तम् । तस्मादसत्त्वादसौ न विकल्प्येत भेदः खपुष्पवत् अतः सम्भाव्यमानश्च स्वभाव एव विकल्पितस्त्वन्मतेऽपि तस्यापि भावस्यापि तत्त्वादेव - प्रागुक्तहेतुप्रकारेण तत्त्वादेकत्वादेव कुतोऽत्र भावे विकल्पः ?
Jain Education International 2010_04
20
इतर आह
ननु भेदः प्रत्यक्षत एव पूर्वोत्तराद्युत्पत्तिविनाशवस्तुप्रविभक्तत्वाद्गृह्यते अभेदश्च न गृह्यते ।
ननु भेदः प्रत्यक्षत इत्यादि यावदभेदश्च न गृह्यते, पूर्वोऽयमुत्तरोऽयं घट इति दिग्भेदेन, आदिग्रहणादूर्ध्वाघोदक्षिणापरभेदेन च गृह्यते घटादि:, तथोत्पन्नो विनष्ट इत्युत्पत्तिविनाशाभ्याम्, वस्तुतोऽपि घटपटादि, रूपरसादि स्वरूपभेदेन - कृष्णो रक्तः खण्डः शकल इत्यादि, एभिः कारणैः 25
विकल्पो हीति । एवं मेदकारणमुपदर्य निराचष्टे - तत्र न चास्येति, भावस्य भेदो नास्ति संसर्गे नास्ति परिणामो नास्ति, इति पृथक् पृथक् प्रतिज्ञात्रयम् हेतुस्तु सर्वत्र एकतत्त्वात्मकत्वादित्येक एव दृष्टान्तः प्रतिखत्ववदिति, प्रतिस्खं विद्यमानो योsसाधारणो धर्मों भावलक्षणस्तदात्मक एव सर्वे भेदसंसर्गपरिणामा नानेकात्मका इति नास्ति विकल्पो भावस्येति भावः । विकल्पयेतेति, भाव एवं घटपटादिना विविधप्रकारेण भवितुमर्हति नाभावो निस्वभावत्वात् सोऽपि विकल्पो न भेदरूपोऽभ वनात्मकत्वात् खपुष्पवदिति भावः । ननु भेदस्यैव प्रत्यक्षेण दिक्कालप्रभवविनाशवस्तुभेदैर्विभक्ततया गृह्यमाणत्वादभेदस्म 30 तथा तथा भवनं न प्रत्यक्षप्रायमित्याशङ्कते - ननु भेद् इति । देशादीनां भेदकानां क्रमेण निदर्शनमाह पूर्वोऽयमित्यादिना पूर्वी घट इत्यादी घटविशेषणतया प्रतीयमानाः पूर्वादयः घटादौ पाश्चात्य घटादिभेदमादर्शयन्ति, अन्यथा पूर्वादीनां प्रतीयमा
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354