Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
२९०
द्वादशारनयचक्रम्
[ विधिविध्यरे
एव हि हस्त्यादिर्मृदादिश्च भवति तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति, एकत्रैवोपयुक्तार्थत्वात् । घटादेर्भवनस्य भेदेऽसत्त्वमेव भावाद्भिन्नत्वात् खरविषाणवत् ।
"
तदेव हि भवनं व्रीह्यादीत्यादि यावत्साधनञ्चैकं भवनमेव व्रीहिबीजम् आदिग्रहणादम्बुक्षेत्रकालादि, अङ्कुरादिवा, तदेव च मृदादि - मृल्लोष्टवत्राश्मसिकतादि च भवनमेवेति वर्त्तते साध्यं D साधनश्च भवति, पुरुषवा दिव्याख्यातन्यायेन स्वयमेव विश्वमादि वर्त्तते, यथा तदभिन्नकर्तृकरणादिसाधनं साध्यश्च तथा भवनमेवात्माव्यतिरिक्तं साधनं साध्यञ्चैकमेव, तथाऽहेयमपरित्याज्यं भवनमेव व्रीह्यादिविकल्पानन्त्येऽपि तदवस्थमेवाप्रच्युतमात्म स्वरूपाद्भवनात् सदा-सर्वकालम् । को दृष्टान्तः ? पुरुषस्य हस्त्यादि यावद्भवनवत् । यथा घटादेरभिन्नतया पुरुषो हस्त्यश्वपर्वतसरित्समुद्रादिप्रपश्ञ्चानभिनयति स्वतः सृजत्युपसंहरति च तथा तथा भवनात् चेतन हस्त्यादयो न ततः केचिद्भेदेन 10 भवन्ति हस्त्यादिप्रपञ्चेन तु पुरुष एव हस्त्यादिर्मृदादिश्च भवति, आदिग्रहणाश्चित्रलेप्य काष्ठपुस्तादिर्भवति तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति न भेदः कश्चिद्भवनादेर्घटादेः । किं कारणं ? एकत्रैवोपयुक्तार्थत्वात् । घटादिरभवनस्तस्य - भवनाद् भेदेऽसत्त्वमेव, भावाद्भिन्नत्वात्, खरविषाणवत् ।
भावाद्भिन्नोऽपि घटो भवत्येव चेत्तस्य भवने वन्ध्यापुत्रोऽपि भवेदघटत्वात् ।
15
( भावादिति ) भावाद्भिन्नोऽपि घटो भवत्येव चेत् ? तस्य भवने वन्ध्यापुत्रोऽपि भवेत् । एतस्य दिङ्मात्रत्वाघटत्वादात्मनाभावात्, पटवत्, घटभवनं हि घटस्तदभावोऽघटस्तस्य भावः । तस्मादुघटत्वात् - घटात्मनाऽभावात् ।
एनमेवार्थं व्याचष्टे -
आत्मनाऽभावात् पटवत्, घटवदेव वा तद्भावाद्भेदाभावाच्च भाव एव विकल्पोऽत्र
न सत्यः ।
20
आत्मनाऽभावादिति, साधनान्तरमेव वा अन्यात्मनाऽभावादिति यावत् पटवत्, यथा पटो घटात्मनाऽभवन् घटो न भवत्येवं घटोऽपि घटात्मनाऽभवनाइटो मा भूत्, घटात्मनाऽभवनञ्च भावाद्भिन्नत्वाभ्युपगमात् सिद्धम्, न चेदेवं वन्ध्यापुत्रोऽपि भवेत्, घटात्मनाऽभवनात् घटवत् । घटवदेव वा तद्भावाद्भेदाभावाच्च घटादिभेदाभावाच्च भाव एव विकल्पो न सत्यः ।
तथा तथा भवनादिति, पुरुषस्यैव हस्त्यादिचेतनरूपतया मृदायचेतनरूपतया भवनात्, न हि पुरुषात् हस्त्यादयो मृदा25 दयो वा पार्थक्येन भवन्ति, एवं भवनमपि चेतनाचेतनरूपेण भवतीति भावः । घटादीनां भवनात्मकत्वाभावे दोषमाह - घटादिरभवन इति । घटोऽसन् भावाद्भिन्नत्वात् खरविषाणवदित्यर्थः । एवमसत्त्वमापाय सत्त्वमप्यापादयति - भावादिति । वन्ध्यापुत्रः सन् भावाद्भिन्नत्वात् घटवदिति भावः । भावाद्भिन्नत्वं हेतुः सूचनमात्रं तेनान्येऽपि हेतवो बोध्या इत्याह-एतस्येति, घटभवनं घटपदेन विवक्षितमित्याह - घटभवनमिति । घटात्मनाऽभावादिति हेतौ घटपदं निरर्थ - कत्वात् परित्यज्य व्याकरोति - आत्मनाऽभावादिति । हेत्वन्तरमेव वायं हेतुरित्याह- अन्यात्मनाऽभावादिति, यथा 30 पटः स्वापेक्षया अन्येन घटात्मनाऽभवन् घटो न भवति तथा घटोsपि घटात्मनाऽभवनाइटो न स्यात् न च घटस्य घटात्मनाऽभवनमसिद्धम्, भावभिन्नत्वेन तत्सिद्धेरुक्तत्वादिति भावः । यदि घटो घटात्मनाऽभवन्नपि भवतीत्यभ्युपगम्यते तर्हि घटवदेव वन्ध्यापुत्रोऽपि भवेदित्याह - न चेदेवमिति उपसंहरति-तद्भावादिति, तस्मात् घटादेर्भावाद्भिन्नवाभावाद्भाव एव सर्व घटः पट इत्यादि विकल्पस्तु न सत्य इति भावः । विविधप्रकारेण भवने कारणं दर्शयति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354