Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 334
________________ २८४ द्वादशारनयचक्रम् [विधिविध्यरे निराक्रियन्ते, अवस्थानां कार्यकारणात्मनां पुरुषमयत्वात् , उक्तः पुरुषात्मकत्वप्रतिपादनयत्नस्य द्रव्यार्थवृत्तसर्वैकत्वाद्यभिमतनिराकरणदोषोऽवस्थाश्रयणात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपीत्यतिदेशेन नियतिकालस्वभावेष्वपि स्वाभिमतनिराकरणम् , तेषामपि दर्शयत्यवस्थावचेति, यथा सुप्तसुषुप्तजाप्रद्विमुक्त्यवस्थाभेदेन भिन्नान्यरूपोपादानेनैव स्वाभिमतनिराकृतिः पुरुषवादेऽभिहिता तथा बाल्या. 5 दिपूर्वोत्तरावस्थासु तथा नियतिवर्तनास्वभावादिभेदाभ्युपगमादेव स्वाभिमतनियत्यादिनिराकरणम् । अथ भाव वा दः स्वभाववादे तु अतिशयश्चायं, आदावेव भेदोपादानात् सम्भवव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानात् , यथा नीलमुत्पलमिति, तथैव चार्थस्य निरूपणात् , (स्वभाववाद इति) स्वभाववादे तुशब्दो विशेषणे, विशेषोऽस्य स्वमतनिराकरणदोषात् , 10 अतिशयश्चायम् , किं कारणं ? आदावेव भेदोपादानात् , इतरे सृष्टिप्रदर्शनद्वारेण दूरं गत्वा पश्चा - दमुपादते स्वभाववादी पुनरुत्थान एव भेदमुपादत्त इत्ययमतिशयः । कुतो भेदोपादानमिति चेत् ? सम्भवव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानातू, सोऽपि सम्भवे व्यभिचारे च विशेषणम् , यथा नीलमुत्पलमिति, नीलत्वं चोत्पले सम्भवति व्यभिचरति च कदाचिदुक्तमपि तदृष्टमुत्पले भ्रमरादिषु च नीलत्वमतो विशेषणं भवतीति नीलञ्च तदुत्पलश्च तदिति, एवं भेदवृत्त्यनुमत्या विना 15 विशेषणोपादानाभावात् , तथेहापि भावशब्दवाच्यस्यार्थस्य स्वशब्दाभिधेयविशेषणार्थ स्वशब्दोपादानं भेदाधारसम्भवव्यभिचारवृत्त्यनुमत्यैव सहितं यथासम्भवानुमत्या विना न विशेषणं तथा नान्तरेण व्यभिचारमपि विशेषणं भवति तत्र व्यभिचारो विरुद्ध्यते द्रव्यार्थवादस्पैक्यादित्यभिप्रायार्थः । तथैव भेदाभ्युपगमात्तत्रापि स्वाभिमतनिराकरणं दोषः खयं भाव्य इत्यतिदिशति-अवस्थावच्चेति । तद्भावमाह-यथेति । खभा ववादस्तु मूलत एव भेदगर्भ इत्याख्यातुमाह-स्वभाववादे विति, खमतनिराकरणदोषादस्य विशेषतां सूचयितुं तुशब्द 20 उपात्त इत्याह-तुशब्द इति तमेव विशेषमादर्शयति-अतिशयश्चायमिति, आदावेवेति , कारणावस्थायामेवेत्यर्थः । पुरुषादयस्तु न कारणावस्थायां भिन्नखरूपाः, अपि तु कार्यावस्थायामेवेत्याह-इतर इति कथं स्वभाववादी प्रथममेव भेद गृह्णातीत्यत्राह-सम्भवेति खभाव इत्यत्र हि भावशब्दस्य स्वशब्दो विशेषणम् , तच विशेषणं सम्भवे व्यभिचारे च सार्थक भवेत् यथोत्पले नीलत्वं सम्भवतीति तेन तद्विशिष्यते, तथा नीलत्वं उत्पलेऽन्यत्र भ्रमरादौ च दृष्टमिति भ्रमरादिव्यावृत्तये उत्पलपदमुच्यते नीलोत्पलमिति नीलपदं सम्भवं व्यभिचारश्चानुमत्य विशेषितम् । तथा विशेषणविशेष्ययोरभेदे विशेषणं 25 व्यावर्तकमेव न भवेदिति तदुपादानं व्यर्थमेवेति भेदोऽपि तयोरभ्युपेय इति विशेषणे स्वीकृते भेदवृत्तिरप्यनुमतैव भवेत् । तथा च भाव खत्वेन विशेषयता भवता सम्भवव्यभिचारवृत्त्यनुमतिः भेदवृत्त्यनुमतिश्चाङ्गीकृतैव, तदङ्गीकारश्च द्रव्यार्थवाद, विरुद्धः, तद्वादस्यैक्यविषयत्वादिति भावः । भावार्थमाह-सोऽपीति, खशब्दोऽपीत्यर्थः, 'सम्भवे व्यभिचारे च स्याद्विशेषणमर्थवदिति न्यायादिति । दृष्टान्तं घटयति-यथेति । नीलत्वस्य व्यभिचारं दर्शयति-तइष्टमिति, नीलत्वं दृष्टमित्यर्थः । एवं तयोर्मेदवृत्तिस्वीकार आवश्यक इत्याह एवमिति, यदि नीलमुत्पलञ्चाभिन्नार्थ स्यात्तन्यतरोपादानं निरर्थकं स्यात्, न 30 त्वेवम् , नीलत्वस्योत्पलभ्रमरादिसाधारणत्वात् , उत्पलत्वस्य च श्वेतनीलादिसाधारणत्वात् तयोर्मेदवृत्तित्वम् । दार्टान्तिकमाचष्टे तथेहापीति, स्वभाव इत्यत्र स्खो भावः स्वकीया सत्तेत्यर्थः, भावे आत्मीयत्वस्य सम्भव इति तेन विशेषितो भावः, परभावव्या वर्तनाय खेति विशेषितश्च, तथा स्वत्वस्य भावस्य च भेदवृत्तिरप्याश्रयणीया, तदेतद्व्यार्थवादविपरीतमिति भावः। न केवलं मयैव शब्देन चार्थेन च भेदापादनं क्रियते भवतापि भूम्यादिकण्टकादित्वेन भावस्य भेदेन निरूपणादित्याह-तथैव चार्थ _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354