Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 335
________________ खशब्दस्य वैयर्थ्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २८५ चार्थस्य निरूपणादिति, न केवलं स्वशब्दोपादानमात्रादेव भेदोऽङ्गीकृतः किं तर्हि ? अर्थोऽपि भूम्यादिकण्टकादित्वेन तथा निरूप्यते उत्तरेण ग्रन्थेन भेदप्राधान्येनैव भावितेनार्थोऽपि भिन्नो विशेषणत्वेन नोपादातुं योग्यः। तद्यथा यदयं भवतीति भूयतेऽनेनेति वा भाव इत्यावयोर्भावशब्दार्थव्युत्पत्तौ तुल्यता, स्वश-5 ब्दार्थो विशेषणत्वेन प्रतीयमानश्चिन्त्यः, सोऽस्वव्यावर्त्तनार्थः, तदर्थत्वाच्चेतरेतराभावमात्रविषयः, स्वपराभावादितरेतराभावार्थाभावस्ततश्चास्वाभवने वर्त्तते, न तु भावस्वरूपप्रतिपादनमिति भावार्थासंस्पर्शान्न किञ्चिदनेन। __ यदयं भवतीत्यादि, तत्र स्वशब्दभावशब्दयोरर्थव्युत्पत्तौ भावशब्दार्थव्युत्पत्तिस्तावद्भाववादिनः स्वभाववादिनश्चावयोः शब्दार्थव्युत्पत्तौ भावशब्दस्य भवतीति भावो भूयतेऽनेनेति वा भाव 10 इति तुल्यता, तस्याञ्च तुल्यतायां न कश्चिद्विसंवादः । स्वशब्दार्थो वा विशेषणत्वेन प्रवर्त्तमानश्चिन्यः, सोऽस्वव्यावर्त्तनार्थः-न स्वो भावः अस्खो भावो न भवतीत्यस्वव्यावर्त्तनं तस्यार्थः । स्वशब्दश्च भावस्यैवात्मपर्यायस्य वाचकः, तस्माद्विशेषणत्वादस्वव्यावरीनार्थः सम्पद्यते, तदर्थत्वाचेतरेतराभावमात्रविषयः-स्वः परो न भवति परोऽपि खो न भवतीति, स्वपराभावादितरेतराभावार्थाभावः भावाभाव इति यावत्, ततश्चार्थाभावार्थत्वादस्वाभवने वर्तते, अस्वो न भवतीयेषोऽस्य मुख्योऽर्थों 15 जायते न तु भावस्वरूपप्रतिपादनमिति भावार्थासंस्पर्शान्न किश्चिदनेन । स्यान्मतं भावमपि ब्रूत इति एतच्चायुक्तम् तस्मान्न तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः, अर्थो वा स्वशब्दं न प्रयोजयति, शब्दवृत्तिविरोधात् । एतदपि वा स्वशब्दस्य नैवास्ति, अस्वस्याभूतत्वाद्वन्ध्यापुत्रवत्, न चाभूतो व्यावर्त्तनाय, अथ सोऽस्वस्तथा, ततः स भाव एव तस्य भावशब्दवाच्यार्थवत् 20 किं व्यावृत्त्याऽनर्थिकया है। स्येति।भेदपक्षेऽपि विशेषणं व्यर्थमित्याह-भेदप्राधान्येनैवेति, यद्यर्था भिन्नरूपतया यदा भावितास्तर्हि खत एवं व्यभिचाराद्यसम्भवात् किमर्थ भावो विशेषणीय इति तथापि स्वशब्दोपादानं निरर्थकमिति भावः। भाववादी खभाववादिनं प्रत्याह-यदयमिति, आवयोर्भावशब्दार्थे समत्वेऽपि भावविशेषणत्वेनोपादीयमाने खशब्दार्थे तु विवाद इति भावः । चिन्त्यतामेव प्रकटयति-स इति, खशब्द इतरव्यावर्तनफलः स्यात्, प्रायो विशेषणानां खेतरव्यावर्तकत्वनियमादिति भावः । अखव्यावर्त्तनार्थत्वादेव खशब्द इतरेतराभावमात्र विषय इत्याह-तदर्थत्वाञ्चेति । कथमस्वव्यावर्त्तनं स्वशब्दार्थ इत्यत्राहखशब्दश्चेति, खः परो न भवति परोऽपि वा खो न भवतीतीतरेतराभाव एवास्यार्थ इत्यर्थः । मात्रपदं भाववाचकत्वमस्य नेति सूचयति । भवतु खशब्द इतरेतराभावमात्रविषयः ततश्च को दोष इत्यत्राह-स्वः पर इति । खः परो न भवति, अत्र परभेदः स्वस्मिन् , परः खो न भवतीत्यत्र परस्मिन् वभेदश्च प्रतीयते, परन्तु सर्वस्यैव भावमात्रत्वात् स्वपराभावेन नेतरेतराभावलक्षणोऽर्थो विद्यते, यद्वा खः परो न भवतीत्यनेन पराभावः परः खो न भवतीत्यनेन च खाभावः प्रतिपादित इति खपरा-30 भावः सिद्धः, भावस्यैवाभाव आयातः, अत एवोक्तं-भावाभाव इति यावदिति । तथा च किमित्यत्राह-ततश्चेति, एवञ्च स्वशब्दस्याखाभवनमेव मुख्योऽर्थो न भावोऽपि, तस्मात् खशब्दो न भावमाख्यातीति किं खशब्देन भावविशेषणेन प्रयोजनमिति भावः । अथ खशब्दो भावमप्याचष्ट इत्याशङ्कायामाह-तस्मादिति, अखाभवन एव वर्तनात्तत्रैव च तस्य वाच ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354