Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 331
________________ २८१ 16 भव्यकर्मसान्तता] न्यायागमानुसारिणीव्याख्यासमेतम् व्यजीवकर्मणोः सन्तानस्याव्यवच्छेदस्वभावादनन्तता, भव्यस्य तु विशुद्धिविशेषस्वाभाव्येन व्यवच्छेदात् सान्तता स्वभावादेव । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यादनादित्वादाकाशवत् । एवञ्च तदित्यादि, एवञ्च कृत्वा स्वभावनयबलेनात्मानो-जीवा द्विविधाः भवसिद्धिकाश्चाभवसिद्धिकाश्चेति, तदुभयस्वभाववर्णनात् । अभव्यजीवकर्मणोरित्यादि, भव्यस्य तु विशुद्धीत्यादि च । गतार्थ वाक्यद्वयम् । अनादेर्जीवकर्मसंतानस्य व्यवच्छेदाव्यवच्छेदौ स्वभावादेवेति नात्र कश्चिद्भव्यकर्मसन्तानसान्ततायामभव्यकर्मसन्तानानन्ततायां वा हेतुश्शक्यो वक्तुमन्यः स्वभावात् । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यात्, कस्य ? भव्यकर्मसन्तानस्याप्यनन्तत्वं स्यात्, कस्मात् ? अनादित्वादाकाशवत् , स्वभावमनिच्छद्भिरनादित्वहेतुरभ्युपगन्तव्यो जायते, सोऽनिष्ठानन्तत्वसाधनाय भवति । अथाऽऽनादित्वहेतुसद्भावेऽपि तत्सान्ततेष्टौ वाऽऽकाशसान्ततेत्यत आह . 10 तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वाद्भव्यकर्मवत् । अथाप्यस्यानादित्वे सत्यहेतुरन्तो भवति ततो निर्हेतुकत्वहेतुकान्तत्ववद्भव्यकर्मसन्तानस्य निर्हेतुकत्वहेतुकादित्वसिद्धिः कस्मान्न भवतीति स्वभाव एव शरणं कारणवादिनां तदपायस्वभावत्वान्मोक्षस्येति । एवं तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्त एवं सर्व चोयेष्वतिदेश्यः। (तदिति) तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वाद्भव्यकर्मवदिति-स्वभाव एवान्तत्वे कारणं न हेतुरन्योऽस्ति हेतुवादेन मृग्यमाणः । अथाप्यस्य-भव्यसंसारस्यानादित्वे सत्यहेतुरन्तो भवति-निर्हेतुकोऽन्त इष्यते ततो यथा चास्यानादित्वे संसारस्याहेतुरन्तो भवति तथा तस्य विरोधी पुनर्निर्हेतुकत्वहेतुकान्तत्ववद्भव्यकर्मसंतानस्य निर्हेतुकत्वहेतुकाऽऽदित्वसिद्धिः कर्मसन्तानस्य कस्मान्न भवतीति वाच्यमत्र विशेषकारणं स्वभावाहेतुवादिना, मम पुनः स्वभाववादिनः स्वभाव एव सर्वत्र कारणं 20 व्यापित्वात् , इतिशब्दो हेत्वर्थे, इत्यतः कारणादित्थं स्वभाव एव शरणं कारणवादिनाम् , कथं कृत्वा ? नित्यावसायित्वाद्भव्यत्वस्य, सिद्धस्य च भव्यत्वाभव्यत्वविरहादित्याशङ्कायामाह-अभव्यजीवेति, भव्यजीवस्य कर्मसन्तानोsनादिखभावप्रागभावस्य सान्ततावत् स्वभावादेव व्यवच्छिद्यते, अभव्यजीवस्य तु अनादिस्वभावजीवत्वादिवत्खभावादेव न व्यवच्छिद्यते, न तु कश्चित्तथाभावे स्वभावव्यतिरिक्तो हेतुरिति भावः। कुतः खभावव्यतिरिक्तहेत्वभाव इत्यत्राह-यदि हेतुरिति । यदि तत्र स्वभावो नाङ्गीक्रियते सर्वत्र हेतुरेव नियामक इतीष्यते तर्हि अनादिभावस्यानन्तत्वव्याया भव्यकर्मसंतानस्याकाशवद- 25 नन्तत्वमेव स्यादनादित्वात् , तच्चानादित्वमनिष्टमेवेति खभाव एव नियामकोऽगत्याजीकार्य इति भावः अनादित्वस्य सान्तत्वव्याप्यत्वाङ्गीकारे तु गगनमपि सान्तं भव्यकर्मसन्तानवत् स्यादित्याह-तदन्तवत्व इति, एवञ्च कारणेऽन्विष्यमाणे खभावव्यतिरि'ककारणालाभात् स एव हेतुरभ्युपेय इत्याशयमाह-स्वभाव एवेति अनादेरभव्यकर्मसन्तानस्याहेतुमन्तरेणान्तवत्त्वे सोऽन्तो निर्हेतुको जातः, तथा च तदन्तं प्रति निर्हेतुकत्वमेव हेतुः सम्पन्नः, यथा चास्याभव्यकर्मसन्तानस्यानादेर्निर्हेतुकत्वहेतुकान्तवत्त्वं तथा भव्यकर्मसन्तानस्यापि निर्हेतुकत्वहेतुकादिमत्त्वं कुतो न स्यात्, अन्त एव निर्हेतुकत्वहेतुको भवति न स्वादिरित्यत्र विशे-80 षकारणं खभावकारणत्वमनभ्युपगच्छता भवताऽवश्यं वाच्यम्, न त्वस्ति च किञ्चित् , अस्माकं तु सर्वत्र खभावस्य व्यापकस्य कारणत्वादेव सर्वत्र निर्वाह इत्याशयेनाह-अथाप्यस्येति । खभावकारणवादिनो मम तु भव्यस्यानादिकर्मसन्तानस्यापि सम्यग्दर्शनादिसाध्यतदपायस्वभावमोक्षशालित्वं तस्य तथाविधस्वभावत्वान्न त्वभव्यकर्मसन्तानस्य तस्यानन्तत्वखभावादिति युज्यत इत्याहकथं कृत्वेति । भव्यकर्मसन्तानात्यन्तोच्छेदखभावत्वान्मोक्षस्येत्यर्थः। इत्थं भव्याभव्यकर्मसन्तानविषयकपूर्वोत्तरपक्षप्र द्वा० न० ३६ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354