Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 330
________________ २८० द्वादशारनयचक्रम् [विधिविध्यर तस्कथमनुभवत्यनुभूयते चैति तदर्थप्रदर्शनार्थमाह स्वयं द्रव्याण्येव कर्माकर्मत्वस्वभावानि संयुज्यन्ते वियुज्यन्त इति संसारमोक्षौ स्वभावतः, अन्योऽन्यसंयोगवियोगविपरिवर्त्तनेन विपरिवर्त्तमानोऽपि स्वभावात्माऽव्याबाधः साध्यासाध्यद्वैतरूपवदद्वैतरूपत्वात् , यथा कनकाश्मनि सुवर्ण द्विधाऽविर्भवत् क्रियाक्रियाभ्यां 5 तत्स्वभावः, अन्तरेण धातुवादं यथा कनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनादिज्ञानपूर्विकया तु क्रियया कैवल्यप्राप्तिर्धातुवाद क्रिययेव कनकोत्पत्तिः केषाश्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात् । खयं द्रव्याणीत्यादि, स्वयमेव द्रव्याणि-आत्मनैव कर्माकर्मत्वस्वभावानि द्रव्याणि संयुज्यन्ते वियुज्यन्ते च, तेषामेव स्वभावभेदानां द्रव्याणां संयोगविभागौ बन्धमोक्षौ देशसर्वविकल्पौ तद्विक10 ल्पविचित्रसुखदुःखजन्ममरणवैषम्ये, तयोः स्वाभाव्येन स एव भवतीति संसारमोक्षौ स्वभावतः । यथा ब्रीहिरेवाङ्कुराउनुभवनात्माऽनुभवत्यनुभूयते च, अन्योन्यसंयोगवियोगविपरिवर्तेन विपरिवर्तमानोऽपि स्वभावात्माऽव्याबाधः, साध्यासाध्यद्वैतरूपवान् स्वजात्यपरित्यागादद्वैतरूपो व्यवस्थित एव सर्वत्र भव्याभव्यजीवराश्योः । को दृष्टान्तः ? यथा कनकाश्मनि सुवर्ण द्विधाऽविर्भवत् क्रियाक्रियाभ्यां तत्स्वभावः, कचिन्नास्येव कनकमिति सोऽपि स्वभावः, तथा केषाश्चित् स्वयमेव कर्मापगमादात्मविशु15 घ्याविर्भावः कैवल्यम्, यथा भरतमरुदेव्यादीनामिति । अत आह तदृष्टान्तत्वेन-अन्तरेणापि धातुबादं कनकाविर्भावस्तथा कर्मविवेकस्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनशानपूर्विकया तु क्रियया प्राचुर्येण कैवल्यप्राप्तिर्धातुवाद क्रिययेव कनकोत्पत्तिरिति स्वभाववैचिच्यादेव, तथा केषाश्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात् । एवञ्च तदुभयस्वभाववर्णनादात्मानो द्विविधा भवसिद्धिकाश्चाभवसिद्धिकाच, अभ 20 स्वभावरूपत्वे कथं बन्धमोक्षौ भवेतामविशेषादित्यत्राह-स्वयं द्रव्याण्येवेति द्रव्याणि जीवाजीवात्मकानि खात्मनैव कर्मत्वस्वभावभाजि देशसर्वभेदेन संयुज्यन्ते, अकर्मत्वखभावभाजि च देशसर्वभेदेन वियुज्यन्तेऽतः संसारमोक्षौ खभावत एवेति भावः । व्रीहिरेवाकुरखभावेन भवनडरमनुभवति, स एवाडरादिरूपेणानुभूयते चेति दृष्टान्तमादर्शयति-यथा व्रीहिरेवेति। एवं व्रीहिरेव भूम्यवादिसंयोगवियोगाभ्यामडरादिरूपेण विपरिवर्त्तमानोऽपि सर्वत्र खभावस्याबाधितत्वादस्खलवृत्तित्वम् , कर्माकर्मलक्षणद्वैतरूपवानपि खजात्यपरित्यागादद्वैतत्वेन व्यवस्थितः सर्वत्रेत्याह-अन्योऽन्येति । साध्यासाध्येति, भेदवदभेदात्मा खभाव इति भावः तत्र दृष्टान्तमुपदर्शयति-यथा कनकाऽश्मनीति, यस्मिन् धम्यमाने सुवर्णमेति स धातुः त्रिविधः, पापणरसमृत्तिकाभेदात् , प्रच्छन्नरूपेण सर्वोऽपि कृतरूपेणाकृतरूपेण विविधो भवति, एवमात्माविर्भावोऽपि द्विविधो भवन् स्वरूपेणैक इति भावः । क्वचिच्च पाषाणादौ खणाभावोऽपि स्वभावादेवेत्याह-क्वचिदिति । तदेवं दृष्टान्तं विविच्य दान्तिकं विवेचयति-तथेति । यथा धातुवादकियाव्यतिरेकेण क्वचित्कन काविर्भावस्तथा भव्यविशेषस्याकृतक एव कैवल्य लक्षणखरूपाविर्भाव इति भावः । केषां तथाविर्भाव इत्यत्राह-यथेति । केषाश्चिद्धातुवादक्रियया कनकाविर्भाववत् सम्यग्दर्श१० मादिप्रचुरक्रियया कैवल्यलक्षणस्वरूपाविर्भाव इत्याह-सम्यग्दर्शनेति । क्वचित् कनकस्यात्यन्तमनाविर्भाववदभव्यजीवानां कैवल्यात्माविर्भावो नास्त्येवेत्या-ना केषाश्चिदिति । तत्र जीवद्वैराश्यमाख्याति-एवञ्चति भवेन भवैर्वा सिद्धिर्येषां ते भवा-भाविनी सिद्धिमुक्तियेषान्ते भवसिद्धकाः, न भवद्धिका अभवसिद्धिकाश्चेति जीवा द्विविधाः जोवस्य भव्यत्वाभब्यस्वाभ्यतरखभावत्वादितिभावः । ननु भव्यत्वाभब्यत्वयोः खाभाविकत्वे खभावस्थ जीवत्वादिवदुच्छेदासम्भवाभिवाणासम्भवः, Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354