Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
खभाववैधम् ] न्यायागमानुसारिणीव्याख्यासमेतम्
२७९ विपरिणामश्चाननुरूपेणेति यावत् । ततोऽन्यथोत्पादविनाशविपरिणामेभ्य इति पुरुषादिसाधनक्रियाफलानां तथाऽनात्मत्वं समर्थयति-घटार्थं प्रवृत्तेषु-घटोत्पत्त्यर्थं प्रवृत्तेषु पट उत्पद्येत, तद्विनाशार्थ प्रवृत्तेष्वविनाशः, विपरिणामार्थं प्रवृत्तेष्वविपरिणामश्चेति स्वभावानियमानोत्पादविनाश विपरिणामाः सन्ति, यदि स्युरयथाभिप्रेताः स्युः स्वभावानियमादिति स्वभावापरिग्रहे शास्त्राणामर्थवत्ता न युज्यते । - अतः शास्त्रार्थवत्त्वाय घटादेः कारणमन्विष्यमाणं वरमिदमेव कारणं स्वभावः, । तत्कारणं द्विधा प्रतिवस्तु स्व एवाऽऽत्मीय एवात्मैव वा भावः, स चैकोऽपि कर्तृकर्मकरणादिकारकभेदं स्वशक्तिभेदादेव लभते, तद्यथा स एवानुभवति सोऽनुभूयते । - (अत इति) अतस्तस्मात् सिद्धशास्त्राणामनतिशयत्वादनिष्टत्वाचानर्थक्यस्य शास्त्रार्थवत्त्वसिद्ध्यर्थश्च घटादेः कारणमन्वेषणीयं तच्च कारणमन्विष्यमाणं शास्त्रार्थवत्त्वाय वरमिदमेव कारणं स्वभावः, नातोऽन्यद्विमर्शरमणीयतरमस्ति, कुतोऽन्यन्नास्ति ? यत्तत्कारणं स्व एवाऽऽत्मीय एवात्मैव 10 वा भावः, कतमोऽसौ ? सङ्ग्रहेण द्विधा प्रतिवस्तु, जीवाजीवव्यवस्थितो योऽस्ति सभावः य आत्मा स भावः, स्वभाव इति च परभावनिराकरणार्थमुच्यते, यथोक्तं 'किमिदं भंते ! अस्थि त्ति वुच्चति ? गोयमा! जीवा चेव अजीवा चेव' तथा 'किमिदं भंते ! समएत्ति वुश्चति ? गोयमा! जीवा चेव अजीवा चेव ।' (भगवत्याम्) एवमावलिकोच्छासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रकालविभागाः रत्नप्रभादि भूमयो द्वीपा समुद्राः पर्वताद्याश्च नेयाः। स चैकः स्वभावः पूर्ववदशेषनित्यत्वलक्षणयुक्तोऽपि कर्तृकर्मकर- 15 णादि कारकभेदं स्वशक्तिभेदादेव लभते, तद्यथा-स्वसाधनविशेषस्वभावादेव विशेषो भवति, स एवानुभवति स एवानुभूयते, एतद्व्याख्यार्थोदाहरणत्वेन कारकद्वयं कर्त्तकर्मकारकभेदा एव शेषकारकाणि इति प्रदर्शनार्थम् , सोऽनुभवति-कर्मफलं भुले, सोऽनुभूयते-स्वभावभेदेनात्मनैव भुज्यतेऽपि स एव ।
थोत्पादेत्यादिमूलमित्याह-तथाऽन्यथेति । एवञ्चाभिमतसाधनेभ्योऽभिमतफलानिष्पत्तेरनभिमतफलनिष्पत्तेश्च प्रत्यक्षादिविरोधः शास्त्रानर्थकत्वञ्चेति भावः। तथा च शास्त्रवैयर्थ्यपरिहाराय कार्यस्यानुरूपे कारणे गवेषणीये विचारतो रमणीयतरं खभा-20 वलक्षणमेवानुरूपं कारणं योग्यं नान्यदित्याह-अत इति । स्वभावस्यैव योग्यकारणत्वे हेतुमाह-यत्तदिति, यस्मात् खभावलक्षणं कारणं प्रतिवस्तु द्वैविध्येन वर्तते, आत्मीयेन भावेन, आत्मभावेन च धर्मधर्मिमावेन द्रव्यपर्यायभावेनेति यावत् । सिद्धति, प्रामाणिकशास्त्रेषु निष्फलत्वस्य स्तोकमपि शङ्कितुमशक्यत्वादनिष्टत्वाचेत्यर्थः । शास्त्रार्थवत्त्वेति शास्त्राणामर्थवत्त्वसिद्ध्यर्थमनुरूपमेव कारणं गवेषणीयमिति स च स्वभाव एव युक्त इति भावः । जीवाजीवेति, जीवेऽजीवे च व्यव. स्थितो यो भावः स खः-आत्मीयो भावः ससाखभावो धर्मरूपः, तथा य आत्मा जीवाजीवरूपो भावः स एव खभावो धर्मि-25 रूपः, सर्वं हि वस्तु आत्मीयेनैव भावेन भवति न परभावेनेति भावः। वस्तुद्वैविध्ये आगमं प्रमाणयति-यथोक्तमिति 'किमिदं भगवन् ! अस्तीत्युच्यते? गौतम ! जीवा एवाजीवा एवं' तथा,-किमसौ भगवन् ! समय इत्युच्यते ? गौतम ! जीवा एवाजीवा एवं' इति छाया। अस्तीति समय इति आवलिकेत्यादिप्रतीति विषया जीवा अजीवा वेत्यर्थः। स चात्मभवनलक्षण. खभाव एकोऽपि पूर्ववन्नित्योऽपि शक्तिमेदात् कर्ता कर्म करणं सम्प्रदानमित्यादिमेदं लभत इत्याह-स चैक इति । खसाधनभूतखभावविशेषादेव साध्यखभावविशेष इति दर्शयति-तद्यथेति । स एवेति, स एवानुभवतीत्यनेन खभाव- 30 विशेषस्यैवानुभवनकर्तृत्वमाविष्कृतम्, स एवानुभूयत इत्यनेन च तस्यैव खभावविशेषस्यानुभवकर्मत्वमाविष्कृतम् । कारकद्वयस्यैवोदाहरणे कारणमाह-कर्तृकर्मेति । करणसम्प्रदानापादानादिकारकाणि कर्तृकर्मकारकभेदखरूपाण्येवातस्तरप्रदर्शनेन तेऽपि प्रदर्शिता एवेति, सर्वेषां हि कारकाणां साम्यत्वेन क्रिया साधारणी, ततश्च सर्वेषां तस्याः कर्तृत्वम् , अवान्तरन्यापारविवक्षायान्तु
दिरूपत्वम् , उत्तच 'निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । म्यापारभेदापेक्षायां करणत्वादिसम्भवः' इति । सर्वस्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354