Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 327
________________ पुरुषप्रयासानर्थक्यम् ] न्यायागमानुसारिणीम्याक्यासमेतम् २७७ शविपरिणामफलैः सम्बन्धदर्शनान्न स्वभाव एवेत्येतच्चायुक्तम्, प्रवृत्तिमतां हि स स्वभाव एव, फलस्वभावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः । व्यवस्थितप्रवृत्तिफलस्वभावे भावे पुरुषप्रयासस्तर्ह्यनर्थक इति चेत्सत्यमेतत् प्रयासोऽनर्थकः, इत्थमनर्थकोऽप्यसौ पुरुषस्यास्त्यव स्वभावादेव । (कुलालेति, अयुक्तमिति ) यस्मात् प्रवृत्तिमतां स स्वभाव एव यथोक्तं प्राकू निमि- 5 तानां निमित्तता स्वाभाविकीति, तस्मात्स्वभाव एव । किचान्यत् फलस्वभावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः - स्वभावादेव मृत्पिण्डदण्डादिभिरेव घटो भवतीति ज्ञात्वा चक्रमूर्ध्नि मृत्पिण्डं संस्थाप्य दण्डग्रहणचक्रभ्रमणादिव्यापारा घटफलयोग्याः क्रियास्तदनुरूपा व्यवस्थिताः । तथा तुरीवेमशलाकादिसाधना: सूत्रोपादानतन्तुसन्ताननवापनवयन क्रियाः पटफलस्वभावानुरूपा व्यवस्थिताः । एवं कृषिसेवावाणिज्य परिव्रज्यादिप्रवृत्तयः स्वभावमेव हेतुं समर्थयन्यो दृश्यन्ते लोके व्यवस्थिताः | 10 आसां नाप्युत्कर्षो नाध्यपकर्षः कश्चित् फलानुरूपाः प्रवृत्तयः प्रवृत्त्यनुरूपं फलं तत्र तत्रेति व्यवस्थितफलप्रवृत्तिता स्वभावादेवेति । स्यान्मतं व्यवस्थितप्रवृत्तिफलस्वभावे भावे पुरुषप्रयासस्तनर्थक इति चेत्सत्यमेतदिति, प्रयासोऽनर्थकः - यथा त्वं ब्रूषे तथैव, स्वभावसामर्थ्यादेव प्रवृत्तेर्निवृत्तेश्च फलसिद्ध्यसिद्ध्योरनर्थक एव प्रयास इति त्वया सदोषाभिमतोऽप्ययं पक्षो मया तत्त्वभावभ्रंशभयान्न त्यज्यते, इत्थमनर्थकोऽप्यसौ प्रयासः पुरुषस्यास्त्येव - सन्नेव स्वभावादेव । यथोक्तं- 'स्वभावतः प्रवृत्तानां निवू - 15 तानां स्वभावतः । न हि कर्त्तेति भावानां यः पश्यति स पश्यति ।।' इति, प्रवृत्तिनिवृत्त्योर्भावानां स्वभाव स्वातंत्र्यमेव स हि स्वो भाव आत्मा वस्तूनां प्रवृत्तनिवृत्तानामित्युक्तत्वात् । 1 प्रवृत्तिनिवृत्त्योरानर्थक्ये किंकृता किंफला वा प्रवृत्तिरतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेन्न, तत्स्वाभाव्यादेव, प्रवर्त्तितव्यमित्येव हि प्रवर्त्तन्तेऽप्रतर्कतो वस्तुनि, अक्षिनिमेषधातुकण्टकादिवत् । मृत्पिण्डादितो यद्यदभिनिर्वर्त्तयितुमभिकांक्षते तथैव तत्प्रवृत्त्या कार्योदय दर्शनादिति भावः । ननु घटपटाद्युत्पत्तौ पुरुष - कारसाध्याभिमतायां मृत्पिण्डदण्ड चक्रसूत्रोदककुलालादिनिमित्तानां निमित्ततापि स्वाभाविकीति पूर्वमेवोक्तत्वात् स्वभाव एव तत्रापि नियामक इत्युत्तरयति - प्रवृत्तिमतामिति । प्रयोजनान्तरमप्यत्राह - फलस्वभावेति, एतादृशफलस्येयमेव प्रवृत्ति - रनुकूला सदृशी वा, नान्येत्यत्र स्वभाव एव नियामक इति भावः, एतमेवार्थं निदर्शनैर्द्रढयति-स्वभावादेवेति । ननु स्वभावादेव यदि फलप्रवृत्त्योर्व्यवस्था तर्हि पुरुषप्रवृत्तेः स्वभावादेव सिद्धौ पुरुषं प्रवर्त्तयितुं क्रियमाणः प्रयासो लोके दृष्टो 25 व्यर्थः स्यादित्याशङ्कते - स्यान्मतमिति । तत्रेष्टापत्या समाधत्ते - सत्यमेतदिति । सत्यमित्यर्धाङ्गीकारे, तत्राज्ञीकृतांशमाख्याति - प्रयासोऽनर्थक इति, तद्विशदीकरोति - यथेति पुरुषप्रयासवैयर्थ्य लक्षणदोषसमाक्रान्ततया त्वयाऽभिमतो - प्ययं पक्षो मया स्वभावविनाशभयान्न त्यज्यते इष्यत एवायं दोष इति भावः । अनङ्गीकृतांशमादर्शयति- इत्थमनर्थको 5पीति, प्रयासस्य व्यर्थत्वेऽपि पुरुषस्य सोऽस्त्येव, तथा स्वभावादेव तस्येति भावः । तदर्थे प्राचां तच्छ्लोकेन सम्मतिमादर्श - यति - यथोक्तमिति भावाः स्वभावेन प्रवर्तन्ते स्वभावेनैव निवर्त्तन्ते न हि कोऽपि कर्तास्ति, एवं यो वेद स एव धीमानिति 30 तदर्थः । अमुमेव भावार्थमाह-प्रवृत्तीति । तदेव समर्थयति स हीति । ननु बुद्धिपूर्व पुरुष प्रवृत्तिनिवृत्त्योरनर्थकत्वे पुरुषस्य प्रवृत्तिनिवृत्ती केन कारणेन किमर्थं वा भवतः, तथा च फलानुरूपाः प्रवृत्तय इत्यभिधानं व्याहतार्थं पुरुषप्रवृत्त्यादेः फलाननुरूपत्वादित्याशङ्कते - प्रवृत्तिनिवृत्त्योरिति । तस्य प्रवृत्त्यादिः स्वभावादेव, न तु केनचित्कारणेन कस्मैचन प्रयोजनाय वा, किन्तु विचारव्यतिरेकेणैव मया प्रवर्तितव्यमित्येव प्रवर्तते यथाऽक्षिनिमेषादिप्रवृत्तिरिति प्रतिविधत्ते - तत्स्वाभाव्यादे Jain Education International 2010_04 20 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354