Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 325
________________ २७५ अनभिव्यक्ताग्रहणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् कुलालस्य घटादेरर्थस्योत्पत्तेर्दर्शनादित्येतञ्च न, प्रागनभिव्यक्तेः-क्रियायाः प्राक् सोत्पत्तिरनभिव्यक्ता, अपवरकघटवत् प्रदीपेन क्रिययाऽभिव्यज्यते नोत्पाद्यत इत्यदोषः। सा सत्यग्रहणनिमित्ताभावे स्वभावादेवेति, त्वयैवाभ्युपगतत्वादतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वाऽञ्जनमन्दरादि चक्षुरादिना न गृह्यत इति यथा स स्वभावस्तथायमपीति किं न गृह्यते । ... (सेति) सा सत्यर्थेऽनभिव्यक्तिरग्रहणनिमित्तानामत्यासन्नविप्रकृष्टव्यवहितसमानाभिहाराभिभवसौम्येन्द्रियदौर्बल्यमनोवैयग्र्यपित्तोपघातादीनामभावे सति किमर्थं भवतीति चेन्मन्यसे वयमत्र ब्रूमः स्वभावादेवेत्यादि यावञ्चक्षुरादिना न गृह्यते, नचास्माभिरेव तद्वक्तव्य स्वभावादेव ग्रहणहेतुषु सत्स्वपि सतोऽर्थस्यानभिव्यक्ती स्वभाव एव कारण मिति, कस्मात् ? त्वयैवाभ्युपगतत्वात् , अतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वा चक्षुरिन्द्रियरूपमञ्जनमन्दरादि न गृह्णात्यत्यन्तमित्यत्र केन त्वयैतत् 10 कारणेन प्रतिपन्नमिति पृष्टेनावश्यं स्वभावादिति वक्तव्यम् , अयं हि चक्षुषः स्वभावो यदतिसन्निकृष्टमञ्जनादि न प्रपश्यति, अतिविप्रकृष्टं वा मेर्वादीति । शेषेन्द्रियाणामपि स्वभावादेवातिविप्रकृष्टाद्यग्रहणं स्वविषयनियमश्चेति । किश्चान्यत् , यथा स स्वभावस्तथायमपि-यथा चक्षुषादीन्द्रियाणामात्मनोऽत्यन्तमतिसन्निकृष्टाद्यग्रहणं स्वभावस्तथाऽनभिव्यक्ताग्रहणं स्वभाव इति किं न गृह्यते । किश्चान्यत् 15 __ यथैतत्तथा किञ्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि, तत्र न सन्त्यात्मादयोऽर्थी इति वृथैव विवदन्ति शाक्यादयः, तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः किञ्चिदपि निर्वर्त्तते, किन्तु भूम्यबादिनीयङ्कुरादिमृद्धटाद्यभिव्यक्त्यनभिव्यक्तिस्वभावम् , वस्तुत्वात्तदात्मत्वात् , तन्न कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वाऽऽरम्भक्रियानिवृत्तयः । स्थितो घटादिः, ततश्च व्यापारेणानन्तरं सोऽभिव्यज्यते दीपेनेव घटादिरित्युत्तरयति-प्रागनभिव्यक्तेरिति।ननु कुतो घटादे: 20 प्रागनभिव्यक्तिर्ग्रहणहेतूनां सद्भावेऽपि, अग्रहणहेतोरभावादियाशंक्य समाधत्ते-सा सतीति, अग्रहणनिमित्तानामत्यासन्नत्वादीनामभावे सति साऽनभिव्यक्तिः खभावादेव भवति, यथा विद्यमानमपि वस्तु अतिसनिकृष्टत्वादिदोषतश्चक्षुरादिना न गृह्यते इत्येतन्नियमो ग्राह्यग्राहकाणां खभावात्तद्वदिति भावः । अत्यासन्नेति, लोचनस्थमजनादि अतिसामीप्यान्न गृह्यते, वियत्युपतन् पतत्री सन्नप्यतिदूरतया प्रत्यक्षेण नोपलभ्यते, कुड्यादिव्यवहितं राजदारादि न गृह्यते, समानाभिहारः-सजातीयपदार्थमिश्रणम् , यथा तोयदविमुक्तानुदबिन्दून् जलाशये न पश्यति, अहनि सौरीभिर्भाभिरभिभूतं प्रहनक्षत्रमण्डलं न दृश्यते, 25 इन्द्रियसमिकृष्टं परमाण्वादि सौक्ष्म्यात् प्रणिहितमनसापि न गृह्यते, विद्यमानमपि रूपरसादि इन्द्रियदौर्बल्यान्न गृह्यते, कामाधुपहितमना मनस इतरव्यासङ्गेन स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमप्यर्थ न गृह्णाति, पित्तादिनोपहितमिन्द्रियं विद्यमानमपि शंखादौ धावल्यं न गृह्णातीति वस्तूनां विद्यमानानामप्यग्रहणनिमित्तान्येतानि भाव्यानि । मयैव तथानभिव्यक्ती कारणं स्वभाव इति नोच्यते, किन्तु त्वयाऽपि तथाऽभ्युपगत एवेत्याह-न चास्माभिरिति । कथमभ्युपगतं मयेत्यत्राह-अतिसन्निकृष्टः मिति । अतिसन्निकृष्यदेरग्रहणे यथा खभावो नियामकस्तथाऽनभिव्यक्तस्याप्यग्रहणे खभाव एव नियामक इति । यथैषा प्राग् घटादेरनभिव्यक्तिः खभावस्तथैवात्मादेरत्यन्तमनुपलब्धिरपि तथाखभाव एवेत्याह-यथैतदिति। . एवं स्वभावादेव तस्यानुपलब्धेः शाक्यादयो तथाखभावमविद्वांसो वृथैव नास्त्यात्मादिरिति विवदन्तीत्याह-तत्रेति । तथा च सर्वेषां खभावहेतुकत्वात् पुरुषात् तद्बुद्धेः तदिच्छायास्तत्प्रयत्नाद्वा न किश्चिदपि निर्वर्तते व्यभिचारादित्याह-तन्नेति । भूम्यवादीति, भूम्यबादौ व्रीयङ्करादेः मृदि घटादेः कदाचिदनभिव्यक्तिः कदाचिच्चाभिव्यक्तिरिति स्वभाव एव, तथा Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354