Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 317
________________ कालज्ञानम् ] न्यायागमानुसारिणीव्याख्यासमेतम् २६७ दृश्यतेऽद्यतनेऽपि केषुचित् पुरुषेषु कलिबलमलीमसप्रज्ञेष्वपि । स्यान्मतं कचिद्विसंवाददर्शनात् कालज्ञानाप्रामाण्यमित्येतच्चायुक्तम् , अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि, प्रणिहितधियामपि पुंसां कचिज्ज्ञानविसंवादात् कालसौक्ष्म्यात्, दुरुपलक्ष्यत्वात् , किं कारणं, ? छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वात् ज्ञानपरिमितत्वाच सर्वस्य सरागस्य ज्ञानादज्ञानं बहुलमिति । तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं', अत एव । साशवं मत्वाऽऽहुरन्ये प्रसह्य यथा 'कालः पचति' इत्यादि । ये पुनर्विनिश्चितधियस्ते प्रसविं वदन्ति तद्यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः' इति ॥ (तथा चेति) तथा च 'केसि णिमित्ता नियया भवंति केसिं च णं विप्पडिएति णाणं' । अत एव साशङ्कमत्वाहुरन्ये न विनिश्चितं प्रसह्य यथा 'कालः पचति' इत्यादि, भूतानां वर्तनात्म-10 कात् कालादन्यत्वाभ्युपगमादनन्यत्वेन कालवर्त्तनात्मकत्वेनैव न विनिश्चितं तथा प्रजानामन्यत्वेन संहरणं सुप्तानां जाप्रतां वा तदन्यत्वेन निर्देशादविनिश्चितत्वात् साशङ्कमेव भेददर्शनानुपातेनोक्तत्वात् । ये पुनर्विनिश्चितधियस्ते प्रसदैवं वदन्ति तद्यथा-'काल एव हि भूतानि' भूतत्वेन कालस्यैव वर्तनात् , 'कालः संहारसम्भवौ' । यथोक्तं प्राक् रूपादयो न केचित् कालमन्तरेणेति, भूम्यादिब्रीडादिवदात्मन्येव संभवसंहारक्रिये इति च बन्धसंसाराविति वचनाञ्च स्वपन्नपि स जागर्ति-स एव स्वपिति ।। जागर्ति च, न तु स्वपन्यो जाप्रद्यो वा व्यतिरिक्तः कश्चित् , ते वा, ततः स्वप्रभेदक्रमसहवृत्तिमात्रत्वाजाप्रत्स्वपदवस्थायाः, सुप्तवृत्त्याऽऽविर्भूतात्मनस्तस्यैव कालस्य जाप्रवृत्त्याऽभिव्यक्तविक्रमत्वात् , कचित् क्रमेण भेदवृत्तिविजृम्भितत्वात् सामान्यवर्तनस्य सुप्तविबुद्धादिवप्रभेदेष्वव्याघातात् । इति कालकारणवादो विधिविधिविकल्प एष समाप्तः। विधफलाद्यनुदयेन विसंवाददर्शनादित्याशङ्कते-स्यान्मतमिति । कालस्यात्यन्तसूक्ष्मतया प्रणिहितमतेरपि छद्मस्थस्य पूर्णतया 20 तद्विज्ञानाभावादेव क्वचिद्विसंवादो नान्यथेत्युत्तरयति-अतिसौम्यादिति, क्षीणसकलदोषस्य भगवतो वचनस्य वितथार्थस्वाभावात् तद्वचनात् कालज्ञानमविसंवाद्येव परन्तु छद्मस्थानामम्माकमज्ञानबहुत्वेन ज्ञेयानामानन्त्येन च न यथावत्परिज्ञानमिति तद्वक्तृणामस्माकमेवात्र दोषो न तत्कालज्ञानस्येति भावः । अत्र प्रमाणमाह-केसिं इति । केषां निमित्ता नियता भवन्ति केषाञ्चन विप्रतिपद्यते ज्ञानमिति छाया। कालाद्भूतादीनामन्यत्वानन्यत्वयोनिर्णयविरहिणां वचनमाह-अत एव साशङ्कमिति, 'कालः पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः' इति (आव० ४०) कारिका, 25 अत्र भूतप्रजादीनां कालादन्यत्वेनोक्तेः कालवर्तनाव्यतिरेकेण निश्चयाभावादविनिश्चितत्वम् , निश्चतधियस्तु वर्तनाव्यतिरेकेण वदन्ति न तु व्यतिरेकेण यथा 'काल एव हि भूतानि कालः संहारसम्भवौ । खपन्नपि स जागर्ति कालो हि दुरतिक्रम' इति, इममेव भावमाचष्टे-ये पुनरिति यथोक्तमिति, अवगमितद्रव्यक्षेत्रभावात्मान इत्यत्र, तथा पृथिव्यादिव्रीह्यादिवृत्तिविवृत्तीत्यादिदृष्टान्तपूर्वकं कालस्यात्मन्यनात्मस्वात्मनि चेति पूर्वोक्तदान्तिकान्थेन संहारसम्भवक्रिययोः कालात्मताया विनिश्चितत्वादिति भावः । खपजाप्रदवस्थे कालस्वरूपे एव न तद्व्यतिरिक्ते, सुप्तवृत्त्याऽऽविर्भूतकालस्यैव जाग्रवृत्त्याऽभि- 30 व्यक्तरित्याह-न तु स्वपझ्य इति, खपजाप्रदवस्थयोर्व्यतिरिक्तो न कश्चिदास्ते, न वा कालव्यतिरिक्त ते अवस्थे किन्तु कालप्रभेदक्रमसहवृत्तिमात्ररूपे एवेति भावः । सहवर्तनमेवाह-सुप्तवृत्त्येति । क्रमवर्तनमाह-कचिदिति । अथ विधिविधि ____Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354