Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 314
________________ २६४ द्वादशारनयचक्रम् [विधिविध्वरे वित्रीयादिसंसरणवदेवात्मस्वात्मनि-जीवस्वरूपे क्रिया अनात्मस्वात्मनि-पुद्गलस्वरूपे या युगपदेव कधसंसरणविहिता-कालकृतबन्धसंसारविहिता-कृता, विधातुरन्यस्याभावात् सैषा संसारानादितायुगपदभिन्नानादिवृत्त्यात्मिका जीवपुद्गलयोः परस्परं स्वात्मपरात्मवृत्तिकृतबन्धसंसारानादिता न न युज्यते विरोधाभावादित्यभिप्रायः, एवं तावद्यौगपद्यलिङ्गकालकृतसंसारानादिता । पूर्वापरादिलिङ्गकालकृतसंसारानादिताप्यस्मिन् दर्शने न विरुद्ध्यत एवेत्यत आह इत्यनादितावर्त्तनाप्रभेदा एव भावान्तराणि क्रमेण प्राप्ताः भूम्यम्ब्वादियोगबीजोद्भेदमूलाङ्कुरपत्रनालकाण्डपुष्पफलशूककणतुषव्रीहिकुरुकतन्दुलोदनरूपा ओदनादप्यभ्यवहृताद्रसरुधिरमांसकलेवरमृन्मृत्पिण्डशिबकस्तूपकछत्रकस्थालककोशककुशूलघटकपालशकेरिका पांशु भूलिरजोभूम्यादित्वेन परमाणुष्यणुकादिसंघाता आरम्भप्रवृत्तिनिष्ठा उत्पत्तिस्थितिभना अपि "वर्तनात्मान एव । इत्यनादितावर्त्तनाप्रभेदा इत्यादि, इतिशब्दः इत्थमर्थे, इत्थमुपपादिता अनादिताया एक वर्सनायाः प्रभेदाः ते पूर्वापरादिक्रमात् , त एव भावान्तराणि क्रमेण प्राप्ताः । के त इति चेत् ? भूम्यम्ब्वादियोगः बीजोद्भेदः मूलमङ्कुर इत्यादि गतार्थ यावत् कुरुकतन्दुलौदनरूपा इति । ओदनादप्यभ्यवहृताद्रसादि यावत् कडेवरं कडेबरान्मृत् , मृदो मृत्पिण्डः, मृत्पिण्डाच्छिबकः, पुनर्यावद्भूम्यावित्वेन परमाणुव्यणुकादिसंघाताः जीवपुद्गलवृत्तिपरिवर्तिभेदेन, वर्त्तनेनैव आरभंते प्रवर्तते नितिछन्तीत्यारम्भप्रवृत्तिनिष्ठाः, पुनर्विपरिणामोऽन्यरूपेणाविर्भाव आरम्भः, प्रवर्तनं स्थिति:, निष्ठा तिरोधानमित्येतदनुपरतधर्मत्रयचक्रमयुगपद्वृत्तावपि, युगपवृत्तावपि पूर्वाभिहितबन्धसंसरणवदुत्पत्तिस्थितिमङ्गा गति वर्तनस्वास्मान एव, तदेव हि वर्त्तनं परिवृत्त्यपरिवृत्तिष्वित्यविरोधं कालकारणवादस्य दर्शयति । तत्प्रसिद्धिप्रदर्शनार्थमाह ननु कृषीवलादिभिरपि तथा तथा पर्युपास्यते, अविर्भूतश्ताङ्कुरकालो न तावद्यवाकुरकाल इत्याविभूतानाविभूतात्मा कालः। खात्मनि बन्धसंसरणविहिता क्रिया बोध्या, तदेवं योगपद्येन जीवाजीवानां तथा तथाऽनादितया वर्तनमेवानादिवर्तनात्मकत्वं कालस्य, अनादिकालात्तत्तव्यत्वेन तेषां परिणामादिति भावः। विधातरिति. चेतनाचेतनानामनादिकालेन वैनसिकतथाविधपरिणामादेव लोकस्यानाद्यनन्तत्वेन सृष्टिप्रलयाभावाल्लोककर्तुरनावश्यकतैवेति भावः । तदेवं जीवाजीवानां जीवत्वाजीव. 28 त्वादिसामान्यधर्मेण योगपद्येन वर्तनस्यानादित्वमुक्त्वा सम्प्रति विशेषधर्मेणापि तेषामनादिक्रमिकवर्त्तनात्मकत्वं वक्तुमाह-त्य. नादितेति, स एव पुद्गल उत्तरोत्तरप्रवर्धमानपरिणामैर्भूम्यम्वुतेजोवाय्वादिव्रीहिबीजादिभिर्वर्तमानः पुनरपचयपरिणामैः पुनः पुद्गलरूपतामाप्नोति तथा पुनरपि प्रवर्धमानपरिणामोऽपचयपरिणामश्च भवन् वर्तते पुनः पुनरेवमिति ऋमिकतत्तत्पर्यायवर्तन. रपि संसारानादिता, न हीदृशक्रमिकवर्तनायाः कदाप्युच्छेदो येन सादित्वं संसारस्य भवेदिति भावः । वर्तनापेक्षयाऽऽरम्भ प्रवर्तननिरोधानाह-वर्त्तनेनैवेति स्वस्वरूपापरित्यागेन, जीवपुद्गलादयः प्रतिक्षणमन्यान्यवर्तनान्यनुभवन्तीति आरम्भस्थितिनिरोधधर्मका इति भावः। विवर्तनापेक्षयापि तानाह-पनरिति. जीवपद्गलादयः क्षणे क्षणे भूम्यम्ब्वादिवीजाकुरादिपरिणामधारणादारम्भस्थितिनिरोधधर्मका अनादित इति भावः । तदेवं युगपद्वृत्तावयुगपद्वृत्तावपि ये उत्पत्तिस्थितिभा उक्तास्ते सर्वे पन्धसंसरणवद्वर्तनखरूपा एवेति कालात्मत्वं सर्ववस्तूनामित्यत्र न कोऽपि विरोध इत्याह-अनुपरतेति, उक्तार्थेऽनुभव प्रमाणयति-नन्विति, ननुरत्र निश्चयार्थकः कृषीवलादयो हि सम्प्रति चूताङ्कुरकाल आगतः, अतोऽस्माभिश्चूतबीज एवेदानीं वप• मीयो न यवबीजादिः, तत्कालस्यानाविर्भूतत्वादित्यनुभूय तथैव कुर्वन्तीति भावः। ननु द्रव्यक्षेत्रभावा अपि कालास्माना ____Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354