Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 312
________________ २६२ द्वादशारनयचक्रम् [विधिविध्यरे ... (वृत्तीति) वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिभिः सामान्यहेतुभिः प्रदोषनिह्नवादिभिश्च विशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारस्यानादिता सन्तानाव्यवच्छेदाद्वा युज्यते, पुरुषवादिनः पुनः परमात्मनः शुद्धात्कूटस्थादिनित्यात् कार्यकारणाभ्यां द्वाभ्यामपि व्यतीतान्न युज्यते संसारो बन्धाभावात् , बन्धाभावः कारणाभावादशरीरत्वादकारणत्वाच्च, चशब्दा। सर्वगतत्वादेकत्वान्नित्यत्वाच्चेत्यादयोऽपि हेतवः । प्रदोषादिकारणाभावात् प्रदोषाभावः, कर्माभावादित्यादिगतार्थ यावत्संसारानादिता । .. अत्राह नियतिवादी तस्य संसारस्यैव तथानियतेः संसारो भवति पुरुषपुद्गलयोरित्यत्र ब्रूमः नापि तस्य नियतेः संसारानादिता, अतत्त्वात् , क्वचिदुपरमाभ्युपगमात् , यद्यन्न तन्न तन्नियतेदृष्टम् , घटपटवदिति, एवमेव तस्य स्वभावादित्येतन्न अतत्त्वात् , यद्यदेतन्न तत्तन्न 10 तत्स्वभावात् , घटपटवदिति।। (नापीति) नापि तस्य नियतेः संसारानादिता, कस्माद्धेतोः ? अतत्त्वात् , तद्भावस्तत्त्वं न तत्त्वमतत्त्वं तस्मादतत्त्वात्तन्नियतेनं भवति संसारः । तत्त्वं चास्य न भवति संसारस्य क्वचिदुपरमा. भ्युपगमात् । खहेतोः साध्याविनाभावित्वोपप्रदर्शनार्थमाह-यद्यन्न तन्न तन्नियतेदृष्टम् , यथा घटः पटनियतेनं भवति, पटोऽपि घटनियतेनं भवति, तस्माद्धटवत् पटवदतत्त्वान्नापि तस्य नियतेरिति साधूक्तम्। 16 किश्चान्यत्-एवमेव तस्य स्वभावात्-यदि ब्रूयात् तस्य स्वभावात्संसारानादितेत्येतन्न, नापि तस्य स्वभावात् , अतत्त्वात् , अतत्त्वमस्य पूर्ववन्मुक्त्यवस्थाभ्युपगमात् सिद्धम् । यद्यदेतन्न तत्तन्न तत्वभावाद्धटपटवदिति । एवं तावदनादिसंसारता नोपपद्यते नियत्यादिवादे कालमन्तरेणेत्युक्तम् । इदानीं कालवादे तदुपपत्तिरुपवर्ण्यते तस्मात्त्वनादिवर्तनात्मकत्वात् कालस्यैतदुपपद्यते , तद्यथा पृथिव्यादित्रीह्यादिवृत्ति20 वृत्तिकमेति, कालेऽभ्युपगम्यमाने सुषुप्त्यादीनामवस्थानां क्रमवर्तनसम्भवेन कार्यकारणत्वोपपत्तौ मिथ्यादर्शनादिभिः प्रदो षनिहवादिभिश्च कारणैर्जीवस्य कर्मबन्धोपपत्ती संसारस्यानादित्वं युज्यते, कालानभ्युपगमे कार्यकारणभावासम्भवेन बन्धकारणकर्माभावेन जीवस्य बन्धानुपपत्तो कथं संसारानादितेति भावः। कालकारणवादे संसारानादित्वं समर्थयति-वृत्तिक्रमापादितेति। पुरुषवादे तदनुपपत्तिमाह-पुरुषवादिन इति, अथ नियतिवादे पुरुषपुद्गलयोस्तथाविधनियत्यैव बन्धसम्भवेन संसारो भविष्यतीत्याशङ्कते-अत्राहेति । समाधत्ते-नापीति, संसारस्य नियतितोऽनादित्वं न सम्भवति, संसारस्यानियतत्वात्, अभ्युपगम्यते हि संसारस्य क्वचिदुपरमः, अतोऽनियतत्वमिति न नियतिकृतत्वं संसारस्येति भावः । तथा च जीवस्य संसा28 रानादिता न नियतिसाध्या अतद्रूपत्वात् , यद्यदतद्रूपं तत्तन्न तत्साध्यम् , यथा घटो न पटनियतिरूपो न पटनियतिसाध्य इति प्रयोगाभिप्रायेण हेतुमाह-अतत्त्वाति इति, संसारस्य नियतिस्वरूपताविरहादित्यर्थः । तद्रूपता कुतो नेत्यत्राह-तत्त्वञ्चास्येति तथा च संसारोऽनियतः क्वचित्तस्यात्यन्तोच्छेदाभ्युपगमात्, प्रलये हि संसार उच्छिद्यत इत्यभ्युपगम्यते भवतेति भावः। व्याप्ति ग्राहयति-यद्यन्नेति । एवं तस्य संसारानादिता स्वभावादपि न सम्भवत्युक्तयुक्तरेवेत्या दिति, यदि संसारस्यानादित्वं खभावस्तर्हि खभावस्यान्यथाभावासम्भवात् तथाविधस्वभावता संसारस्य सदा भवेत्, न तथाऽभ्युपगम्यते संसारस्य 50 सृष्टिप्रलयाभ्युपगमेन साद्यन्तत्वादित्याशयेन निराकरोति-अतत्त्वादिति, अतत्वभावत्वादित्यर्थः । हेत्वसिद्धिं निराकरोति अतत्त्वमस्येति, जीवस्यानादिसंसारत्वाभावो मुक्यवस्थाभ्युपगमात्. अनादिसंसारस्वभावत्वे जीवोऽनाद्यनन्तसंसारी भवेत्, तथा च मुक्तिने भवेदेव, खभावस्यान्यथाभावासम्भवादिति भावः। अत्रापि व्याप्तिं ग्राहयति-यद्यदेतन्नेति. यद्यत् अतत्व. भावं तत्तत् न तत्साध्यम् यथा घटो न पटखभावरूपो न पटखभावसाध्य इति । कालवादे तु कालस्यानादिवत्तेनात्मकत्वात् संसारानादिता युज्यत एवेत्याह-तस्मात्त्विति । यौगपद्यलिङ्गेन कालकृतसंसारानादितामाह-तद्यथेति । वृत्तिः पदार्थानों Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354